________________
२४
शीलाचार्यविचितविवरणविभूषिते आचाराङ्गसूत्रे आवसंतेण इत्येतत्पाठान्तरमाश्रित्यावगन्तव्यमिति । भगवता इति भग: ऐश्वर्यादिषडर्थात्मकः, सोऽस्यास्तीति भगवान्, तेन । एवम् इति वक्ष्यमाणविधिनाऽऽख्यातमिति अनेन कृतकत्वव्युदासेनाऽर्थरूपतयाऽऽगमस्य नित्यत्व
माह । इह इति क्षेत्रे प्रवचने आचारे शस्त्रपरिज्ञायां वा आख्यातमिति सम्बन्धः । 5 यदिवा इह इति संसारे, एकेषां ज्ञानावरणीयावृतानां प्राणिनां नो संज्ञा भवति,
संज्ञानां संज्ञा स्मृतिरवबोध इत्यनर्थान्तरम्, सा नो जायत इत्यर्थः । उक्त: पदार्थः । पदविग्रहस्य तु सामासिकपदाभावाद् अप्रकटनम् ।
इदानीं चालना-ननु च अकारादिकप्रतिषेधकलघुशब्दसम्भवे सति किमर्थं नोशब्देन प्रतिषेधः ? इति । अत्र प्रत्यवस्था- सत्यमेवम्, किन्तु 10 प्रेक्षापूर्वकारितया नोशब्दोपादानम्, सा चेयम्-अन्येन प्रतिषेधे सर्वनिषेधः स्यात्,
यथा-'न घट:, अघटः' इति चोक्ते सर्वात्मना घटनिषेधः । स च नेप्यते, यतः प्रज्ञापनायां दश संज्ञाः सर्वप्राणिनामभिहितास्तासां सर्वासां प्रतिषेधः प्राप्नोतीति कृत्वा । ताश्चेमाः
कइ णं भंते ! सन्नाओ पन्नत्ताओ ? गोयमा ! दस सन्नाओ पन्नत्ताओ, 15 तंजहा-आहारसन्ना भयसन्ना मेहुणसन्ना परिग्गहसन्ना कोहसन्ना माणसन्ना मायासन्ना
लोहसन्ना ओहसन्ना लोगसन्न [प्रज्ञापनासू०] त्ति, आसां च प्रतिषेधे स्पष्टो दोषः । अतो नोशब्देन प्रतिषेधनमकारि, यतोऽयं सर्वनिषेधवाची देशनिषेधवाची च, तथाहि-नोघट इत्युक्ते घटाभावमात्रं प्रतीयते अर्थप्रकरणादिप्रसक्तनिषेधेन
चाप्रसक्तस्य विधानम्, स पुनर्विधीयमानः प्रतिषेध्यावयवो ग्रीवादिः प्रति20 षेध्यादन्यो वा पटादिः प्रतीयते, तथा चोक्तम्
प्रतिषेधयति समस्तं प्रसक्तमर्थं च जगति नोशब्दः । स पुनस्तदवयवो वा तस्मादर्थान्तरं वा स्यात् ॥ [ ]
१. ति अनेन वक्ष्य० ख । २. नागमस्यार्थरूपतया नित्यत्वमित्यर्थः । इह ख । ३. नोपजायत च । ४. इति । उक्तः ङ । ५. दिप्रति० क । ६. अन्यप्रति० ख । ७ ०धेन स० ग ङ च । ८. इति घटा० ख । ९. ०ते इति तथा ग ! १०. "प्रसक्तमर्थं च दात शब्दात् प्रसक्तनिषेधेनाऽप्रसक्तविधानमाह" जै०वि०प० ।