________________
२३
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः ताश्च प्रकृतयस्तदुपदेशद्वारेण तथैव कृत्वा यथाभिप्रेतान् भोगान् बुभुजिरे । अयमत्रार्थोपनयः-राजसदृशेन सूरिणा प्रकृतिसदृशस्य शिष्यगणस्य भूखण्डसदृशः संयमो मिथ्यात्वकचवराद्यपनीय सर्वोपधाशुद्धस्यारोपणीयः, तं च सामायिकसंयमं स्थिरीकृत्य पक्वेष्टकापीठतुल्यानि व्रतान्यारोपणीयानि, ततः प्रासादकल्पोऽयमाचारो विधेयः । तत्रस्थश्च शेषशास्त्रादिरत्नान्यादत्ते निर्वाणभाग 5 भवति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणलक्षणोपेतं सूत्रमुच्चारणीयम्, लक्षणं त्विदम्
अप्पग्गंथमहत्थं बत्तीसादोसविरहियं जं च ।
लक्खणजुत्तं सुत्तं अट्ठहि य गुणेहिं उववेयं ॥ [आव० नि० ८८०] इत्यादि । तच्चेदं सूत्रम्
10 [ सू० १ (१)] सुयं मे आउसं ! तेणं भगवया एवमक्खायं-इहमेगेसिं नो सन्ना भवति ।
__ अस्य संहितादिक्रमेण व्याख्या-संहिता उच्चारितैव । पदच्छेदस्त्वयम्श्रुतं मया आयुष्मन्, तेन भगवता एवम् आख्यातम्-इह एकेषां नो संज्ञा भवति । एकं तिङन्तम्, शेषाणि सुबन्तानि । गतः सपदच्छेदः सूत्रानुगमः। 15
साम्प्रतं सूत्रपदार्थः समुन्नीयते-भगवान् सुधर्मस्वामी जम्बूनाम्न इदमाचष्टे यथा-श्रुतम् आकर्णितमवगतमवधारितमिति यावद्, अनेन स्वमनीषिकाव्युदासः । मया इति साक्षात्, न पुनः पारम्पर्येण । आयुष्मन् इति जात्यादिगुणसम्भवेऽपि दीर्घायुष्कत्वगुणोपादानम् दीर्घायुरविच्छेदेन शिष्योपदेशप्रदायको यथा स्यात्, इहाचारस्य व्याचिख्यासितत्वात् तदर्थस्य च 20 तीर्थकृत्प्रणीतत्वादिति सामर्थ्यप्रापितं तेन इति तीर्थकरमाह । यदिवा आमृशता भगवत्पादारविन्दमिति, अनेन विनय आवेदितो भवति । आवसता वा तदन्तिक इत्यनेन तु गुरुकुलवासः कर्तव्य इत्यावेदितं भवति । एतच्चार्थद्वयं आमुसंतेण
१.०देशानुसारेण ग। २. ०शास्त्ररत्ना० ख । ३. गतश्च पदच्छेदः । साम्प्र० ख । ४. ०वधारि० ख। ५. ०युष्मत्त्वगु० ग घ ङ। ६. अथवा ख । ७. ०न गुरु० ग च। ८. ०ति । इत्येतच्चा० ख।