________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे दव्वं सत्थग्गिविसन्नेहंबिलखारलोणमादीयं । भावो उ दुप्पउत्तो वाया काओ अविरई य ॥३६॥
दव्वमित्यादि । शस्त्रस्य निक्षेपो नामादिश्चतुर्धा । व्यतिरिक्तं द्रव्यशस्त्रं खड्गाद्यग्नि-विष-स्नेहाऽम्ल-क्षार-लवणादिकम् । भावशस्त्रं तु दुष्प्रयुक्तो 5 भावः अन्तकरणं तथा वाक्कायावविरतिश्चेति जीवोपघातकारित्वादिति भावः ॥३६॥ परिज्ञापि चतुर्धेत्याह
दव्वं जाणण पच्चक्खाणे भविए सरीर उवगरणे । भावपरिणा जाणण पच्चक्खाणे य भावेणं ॥३७॥
दव्वमित्यादि । तत्र द्रव्यपरिज्ञा द्विधा-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । 10 ज्ञपरिज्ञा आगम-नोआगमभेदाद् द्विधा । आगमतो ज्ञाताऽनुपयुक्तः । नो
आगमतस्त्रिधा । तत्र व्यतिरिक्ता द्रव्यज्ञपरिज्ञा यो यद् द्रव्यं जानीते सचित्तादि सा परिच्छेद्यद्रव्यप्राधान्याद् द्रव्यज्ञपरिज्ञेति । प्रत्याख्यानपरिज्ञाऽप्येवमेव । तत्र व्यतिरिक्ता द्रव्यप्रत्याख्यानपरिज्ञा देहोपकरणपरिज्ञानम्, उपकरणं च रजोहरणादि, साधकतमत्वात् । भावपरिज्ञाऽपि द्विधैव-ज्ञपरिज्ञा प्रत्याख्यानपरिज्ञा च । [तत्र 15 ज्ञभावपरिज्ञा आगम-नोआगमभेदाद् द्विधा] तत्रागमतो ज्ञातोपयुक्तश्च । नोआगमतस्त्विदमेवाध्ययनं ज्ञान-क्रियारूपम्, नोशब्दस्य मिश्रवाचित्वात् । प्रत्याख्यानभावपरिज्ञाऽपि तथैव । आगमतः पूर्ववत् । नोआगमतस्तु प्राणातिपातनिवृत्तिरूपा मनोवाक्कायकृत-कारिता-ऽनुमतिभेदात्मिका ज्ञेयेति ॥३७॥
गतो नामनिष्पन्नो निक्षेपः । साम्प्रतमाचारादिप्रदानस्य सुखप्रतिपत्तये 20 दृष्टान्तोपन्यासेन विधिराख्यायते यथा-कश्चिद् राजाऽभिनवनगरनिवेशेच्छया
भूखण्डानि विभज्य समतया प्रकृतिभ्यो दत्तवान् तथा कचवरापनयने शल्योद्धारे भूमिस्थिरीकरणे पक्वेष्टकापीठप्रासादरचने रत्नाद्युपादाने चोपदेशं च दत्तवान् ।
१. ०विसंनेहंबिललोणखारमा० ज । २. नेहिंबि० ख झ । ३. य ठ । ४. ०णं वाक्का० ङ। ५. ०याविर० ख ग । ६. दविए ख ज ठ । ७. ०क्खाणं च भा० कप्रतेविना। ८. ०व्यज्ञानपरि० ग घ ङ च । ९. ०न्याद् द्रव्यपरि० कादर्शमृते । १०. देह उप० ख ग च । ११. ०तश्चेदमेवा० ख । १२. भूस्थिरी० कपुस्तकं विना ।