________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः जितकपायेणानुकूल-प्रतिकूलोपसर्गनिपातेषु सुख-दुःखतितिक्षा विधेयेति । चतुर्थे त्वयम्-प्राक्तनाध्ययनार्थसम्पन्नेन तापसादिकष्टतप:सेविनामष्टगुणैश्वर्यमुद्वीक्ष्यापि दृढसम्यक्त्वेन भवितव्यमिति । पञ्चमे त्वयम्-चतुरध्ययनार्थस्थितेनासारपरित्यागेन लोकसाररत्नत्रययुक्तेन भाव्यमिति । षष्ठे त्वयम्प्रागुक्तगुणयुक्तेन निसङ्गतायुक्तेनाऽप्रतिबद्धन भाव्यमिति । सप्तमे त्वयम्- 5 संयमादिगुणयुक्तस्य कदाचिन्मोहसमुत्थाः परीषहा उपसर्गा वा प्रादुर्भवेयुस्ते सम्यक् सोढव्याः । अष्टमे त्वयम्-'निर्वाणम् अन्तक्रिया, सा सर्वगुणसंयुक्तेन सम्यग् विधेयेति । नवमे त्वयम्-अष्टाध्ययनप्रतिपादितोऽर्थः सम्यगेवं वर्धमानस्वामिना विहित इति, तत्प्रतिपादनं च शेषसाधूनामुत्साहार्थम्, तदुक्तम्
तित्थयरो चउणाणी सुरमहिओ सिज्झियव्वय धुयम्मि । अणिगृहियबलविरिओ सव्वत्थामेसु उज्जमइ ॥ किं पुण अवसेसेहि य दुक्खक्खयकारणा सुविहिएहिं । होइ ण उज्जमियव्वं सपच्चवायम्मि माणुस्से ? ॥
[पंचव०८०१, आचा० नि० २७८-७९] साम्प्रतमुद्देशार्थाधिकारः शस्त्रपरिज्ञाया अयम्
15 जीवो छक्कायपरूवणा य तेसिं वहे य बंधो त्ति । विरईए अहिगारो सत्थपरिणाए कायव्वो ॥३५॥
जीवो इत्यादि । तत्र प्रथमोद्देशके सामान्येन जीवास्तित्वं प्रतिपाद्यम् । शेषेषु तु पट्सु विशेषेण पृथिवीकायाद्यस्तित्वमिति । सर्वेषां चावसाने बन्धविरतिप्रतिपादनमिति, एतच्चान्ते उपात्तत्वात् प्रत्येकमुद्देशार्थेषु योजनीयम्, 20 प्रथमोद्देशके जीवः, तद्वधे बन्धः, विरतिश्चेत्येवमिति । तत्र शस्त्र-परिज्ञेति द्विपदं नाम, शस्त्रस्य निक्षेपमाह
१. ०पाते सु० कपुस्तकं विना । २. ०त्रयोद्युक्तेन कख आदशौँ विना । ३. ०न भवितव्यम् । कतिमृते । ४. निर्याणम् कखप्रती ऋते । ५. ०गुणेन सम्य० ख, ०गुणयु० ग घ ङ च । ६. ०यनेन प्र० च । ७. गेव व० घ ङ। ८. तत्प्रदर्शनं ग । ९. ०नं चाशेष० च । १०. धुतम्मि ग घ ङ। ११. ०सेहिं दु० कपुस्तकमृते । १२. वहेण ब० कठपुस्तके विना । १३. ०ण्णाय का० ख । १४. पृथ्वीका० कगप्रती विना । १५. शस्त्रनि० क ।