SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ २० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे कर्मोद्वेष्टनार्थं मूलोत्तरगुणकलापविषयम् । इह चानेनैवाधिकारः, यतो नवाप्यध्ययनानि मूलोत्तरगुणस्थापकानि निर्जरार्थमनुशील्यन्ते ॥३०॥ एतेषां चान्वर्थाभिधानानि दर्शयितुमाह सत्थपरिण्णा लोगविजओ य सीओसणिज्ज सम्मत्तं । तह लोगसारणामं धुयं तेहा महपरिन्ना य ॥३१॥ अट्ठमए य विमोक्खो उवहाणसुयं च नवमर्ग होइ । इय एसो आयारो आयारग्गाणि सेसाणि ॥३२॥ सत्थेत्यादि । अट्ठमए इत्यादि । स्पष्टे, केवलमित्येष नवाध्ययनरूप आचारः, द्वितीयश्रुतस्कन्धाध्ययनानि तु शेषाणि आचाराग्राणीति ॥३१10 ३२॥ साम्प्रतमुपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधि कारश्च, तत्राद्यमाहजियसंजमो य लोगो जह बज्झइ जह य त पयहियव्वं । सुह-दुक्खतितिक्खा वि य सम्मत्तं लोगसारो ये ॥३३॥ निस्संगया य छटे मोहसमुत्था परीसहुवसग्गा । 15 णिव्वाणं अट्टमए नवमे य जिणेण ऐवं ति ॥३४॥ दारं ॥ जिय० इत्यादि । निस्संगेत्यादि । तत्र शस्त्रपरिज्ञायामयमर्थाधिकार:जियसंजमो त्ति जीवेषु संयमो जीवसंयमः, तेषु हिंसादिपरिहारः । स च जीवास्तित्वपरिज्ञाने सति भवति अतो जीवास्तित्व-विरतिप्रतिपादन मत्रार्थाधिकारः । लोकविजये तु 'लोगो जह बज्झइ जह य तं पयहियव्वं' ति 20 विजितभावलोकेन संयमस्थितेन लोको यथा बध्यतेऽष्टविधेन कर्मणा, यथा च तत् प्रहातव्यं तथा ज्ञातव्यमित्ययमर्थाधिकारः । तृतीये त्वयम्-संयमस्थितेन १. ०र्जरणार्थ० घ । २. तह महाप० ख ज झ ठ । ३. ०मव( ओ?) य छ । ४. ०गं भणियं । इच्चेसे । ख ज झ ठ, गं भणियं । इय ज । ५. ईएसो छ । ६. सत्थे इत्या० ग । ७. ०एत्यादि ख च । ८. तं विजहि० क ब ठ, तं पजहि० ख, तं पड़हि० ज झ । ९. उक। १०. निज्जाणं ख ज ब ठ । ११. जिणाणए बेंति क, जिणाण । १२. एयं ति ख ज झ। १३. ०ग इत्या० ख ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy