________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः दव्वमित्यादि । ज्ञशरीर-भव्यशरीव्यतिरिक्तं शाक्य-परिव्राजकादीनामज्ञानानुगतचेतसां बस्तिनिरोधमात्रं विधवा-प्रोषितभर्तृकादीनां च कुलव्यवस्थार्थ कारिता-ऽनुमतियुक्तं द्रव्यब्रह्म । भावब्रह्म तु साधूनां बस्तिसंयमः, अष्टादश-- भेदरूपोऽप्ययं संयम एव, सप्तदशविधसंयमाभिन्नरूपत्वादस्येति । अष्टादश भेदास्त्वमी
दिव्यात् कामरतिसुखात् त्रिविधं त्रिविधेन विरतिरिति नवकम् ।
औदारिकादपि तथा तद् ब्रह्माष्टादशविकल्पम् ॥ [ प्रशम० गा० १७७ ] चरणनिक्षेपार्थमाहचरणम्मि होइ छक्कं गइमाहारे गणे य चरणं च । खेत्तम्मि जम्मि खेत्ते काले कालो जहिं जो उ ॥२९॥ 10
चरणमित्यादि । चरणं नामादि षोढा । व्यतिरिक्तं द्रव्यचरणं त्रिधा भवतिगति-भक्षण-गुणभेदात् । तत्र गतिचरणं गमनमेव । आहारचरणं मोदकादेः । गुणचरणं द्विधा-लौकिकं लोकोत्तरं च । लौकिकं यद् द्रव्यार्थं हस्तिशिक्षादिकं वैद्यकादिकं वा शिक्षन्ते । लोकोत्तरं साधूनामनुपयुक्तचरणम् उदायिनृपमारकादेर्वा । क्षेत्रचरणं यस्मिन् क्षेत्रे गत्याहारादि चर्यते व्याख्यायते वा, 15 शब्दसामान्यान्तर्भावाद्वा शालिक्षेत्रादिचरणमिति । कालेऽप्येवमेव । भावचरणमाह
भावे गइ आहारे गुणे गुणवओ पसत्थ अपसत्था । गुणचरणेण पसत्थेण बंभचेरा णव हवंति ॥३०॥
भावे इत्यादि । भावचरणमपि गत्याहार-गुणभेदात् त्रिधा । तत्र गतिचरणं 20 साधोरुपयुक्तस्य युगमा त्रदृष्टेर्गच्छतः । भक्षणचरणमपि शुद्धपिण्डमुपभुञ्जानस्य । गुणचरणमप्रशस्तं मिथ्यादृष्टीनाम्, सम्यग्दृष्टीनामपि सनिदानम् । प्रशस्तं तेषामेव
१. ०नां कु० ख । २. ०शसंय० ख । ३. ०हारो गणो य कञप्रतिभ्यामते । ४. चरणाइ झ, चरणे वा ज । ५. ०हिं होति । ६. ०युक्तं च० घ । ७. भावमाह ग घ ङ। ८. गइमाहारो गुणा गुण० कादर्श विना । ९. ०त्थमप० कप्रतिमृते । १०. ०चेरे ण० झ । ११. ०त्रदत्तदृष्ट० ग ङ। १२. शद्धं पि० घ ङ ।