________________
१६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे भिधानम् । असद्भावस्थापना अक्षादौ, सद्भावस्थापना प्रतिविशिष्टयज्ञोपवीताद्याकृतिमल्लेप्यादौ द्रव्ये, अथवा स्थापनायां व्याख्यायमानायां ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेन च सप्तानां वर्णानां नवानां च वर्णान्तराणामुत्पत्तिणनीयेति ॥१८॥ यथाप्रतिज्ञातमाह
एक्का मणुस्सजाई रज्जुप्पत्तीय दो कया उसहे । तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि ॥१९॥
एक्का इत्यादि । यावद् नाभेयो भगवान् नाद्यापि राजलक्ष्मीमध्यास्ते तावदेकैव मनुष्यजातिः । तस्यैव राज्योत्पत्तौ भगवन्तमेवाश्रित्य ये स्थितास्ते
क्षत्रियाः, शेषाश्च शोचनाद्रोदनात् शूद्राः । पुनरग्न्युत्पत्तावयस्कारादिशिल्प10 वाणिज्यवृत्त्या वेशनाद् वैश्याः । भगवतो ज्ञानोत्पत्तौ भरतकाकणी-लाञ्छनात्
श्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धाः, त्रयश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ॥१९॥ साम्प्रतं वर्ण-वर्णान्तरनिष्पन्नं सङ्ख्यानमाह
संजोगे सोलसगं सत्त य वन्ना उ नव य अंतरिणो । एए दो वि विगप्पा ठवणाबंभस्स नायव्वा ॥२०॥
संजोगे इत्यादि । संयोगेन षोडश वर्णाः समुत्पन्नाः । तत्र सप्त वर्णाः, नैव तु वर्णान्तराणि । एतच्च वर्ण-वर्णान्तरविकल्पद्वयं स्थापनाब्रह्मेति ज्ञातव्यम् ॥२०॥ साम्प्रतं पूर्वसूचितं वर्णत्रयमाह, यदिवा प्रागुद्दिष्टान् सप्त वर्णानाह
पगैईचउक्वगाणंतरे य ते होंति सत्तं वन्ना । आणंतरेसु चरिमो वण्णो खलु होइ नायव्वो ॥२१॥
१. ०व्या ब्राह्मणोत्पत्तिप्रस० घ ङ। २. ०नां च व० घ च । ३. माणुसजाई । ०त्तीड़ दो ख ठ । ५. राज्यल० क। ६. ०नाच्च श० कपुस्तकमते । ७. शद्धास्त्रयः वर्णा अन्ये ख । ८. ०ष्पन्नस० ग च, ०ष्पन्नसङ्ख्यामाह घ ङ । ९. दोण्णि विग० । १०. ०गेत्यादि क ख ग । ११. संयोगात् षोडशवर्णाः । तत्र ख । १२. नव वर्णा० ख च । १३. ०गतिय च० ब । १४. ०त्त नायव्वा । ख । १५. य ज । १६. ०तरे उ च० क छ ञ, तरिओ च० झ।