________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः तंत्र प्रक्षेपाद् बहुत्वम्, एवमपि ज्ञान-ज्ञेययोस्तुल्यत्वात् तुल्या एव नानन्तगुणा इति । अत्राचार्या आहुः-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्व चारित्रपर्यायैर्ज्ञान-दर्शनपर्यायसहितैः परिपूर्णा तत्प्रमाणा सर्वाकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगित्वात् पर्यायानन्तभागवृत्तित्वमित्यदोषः।
इदानीं सारद्वारम्-कः कस्य सारः ? इत्याहअंगाणं किं सारो आयारो तेस्स किं हवइ सारो । अणुओगत्थो सारो तस्स वि य परूवणा सारो ॥१६॥
अंगाणमित्यादि स्पष्टा, केवलम् अनुयोगार्थः व्याख्यानभूतोऽर्थः, तस्य प्ररूपणा यथास्वं विनियोग इति ॥ अन्यच्च
सारो परूवणाए चरणं तस्स वि य होइ निव्वाणं । निव्वाणस्स उ सारो अव्वाबाहं जिणा बेंति ॥१७॥ दारं ।।
सारो इत्यादि । स्पष्टा । इदानीं श्रुत-स्कन्धपदयोः नामादिनिक्षेपादिक पूर्ववद्विधेयम् , भावेन चेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याह
बंभम्मि( म्मी) 3 चउक्कं ठवणाए होइ बंभणुप्पत्ती । सत्तण्ह य वण्णाणं नवण्ह वण्णंतराणं च ॥१८॥ बंभम्मीत्यादि । तत्र ब्रह्म नामादि चतुर्धा । तत्र नामब्रह्म ब्रह्मेत्य
15
१. तत्र क्षे० ग, “तत्र इति प्रज्ञापनीयपर्यायेषु, न हि ज्ञानमन्तरेण चारित्रं भवतीति आह ज्ञान-ज्ञेययोरित्यादि, कथमुक्तं नियुक्तिकृता सव्वेसिं पज्जवाणमित्यादि इति पराभिप्रायः'' जै०वि०प० । २. ०चार्य आह-या० ग । ३. ०र्णा तावत्प्र० ख, "तत्प्रमाणा इति प्रज्ञापनीयाऽप्रज्ञापनीयपर्यायप्रमाणा'' जै०वि०प० । ४. "चारित्रमात्र इति सर्वेषां ज्ञान-दर्शनपर्यायाणामपेक्षया चारित्रपर्यायाणामनन्तभागत्वम्, तेन यदुक्तं नियुक्तिकृता तद् घटत एव'' जै०वि०प० । ५. तत्थ किं ख, तत्थ हवइ किं सारो ठ । ६. ०नरूपोऽर्थः खप्रतौ प्रत्यन्तरम् । ७. यथास्थं ग च । ८. तस्सेव य होइ ख । ९. य ज । १०. स्पष्टैव इ० ग घ ङ च । ११. बंभम्मि । १२. य ठ । १३. तत्त नाम ब्रोत्य० घ ङः तत्र नाम ब्रह्मेत्य ख ।