SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ १२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे सव्वेसिमित्यादि । सर्वेषां तीर्थकराणां तीर्थप्रवर्तनादावाचारार्थः प्रथमतयाऽभूद् भवति भविष्यति च । ततः शेषाङ्गार्थ इति । गणधरा अप्यनयैवानुपूर्व्या सूत्रतया ग्रन्थन्तीति ॥८॥ इदानीं प्रथमत्वे हेतुमाह आयारो अंगाणं पढमं अंग दुवालसण्हं पि । एत्थ य मोक्खोवाओ ऐस य सारो पवयणस्स ॥९॥ दारं ॥ आयारो इत्यादि । अयमाचारो द्वादशानामङ्गानां प्रथममङ्गमित्यनूद्य कारणमाह-यतोऽत्र मोक्षोपायः चरणकरणं प्रतिपाद्यते । एष च प्रवचनसारः, प्रधानमोक्षहेतुप्रतिपादनात् । अत्र च स्थितस्य शेषाङ्गाध्ययनयोग्यत्वाद् अस्य प्रथमतयोपन्यास इति ॥९॥ 10 इदानीं गणिद्वारम्, साधुवर्गो गुणगणो वा गण इति, सोऽस्यास्तीति गणी । आचारायत्तं च गणित्वमिति प्रदर्शयन्नाह आयारम्मि अहीएं जं णाओ होइ समणधम्मो उ । तम्हा आयारधरो भण्णइ पढमं गणिट्ठाणं ॥१०॥ दारं ॥ . आयारम्मीत्यादि । यस्माद् आचाराध्ययनात् क्षान्त्यादिकश्चरणकरणात्मको 15 वा श्रमणधर्मः परिज्ञातो भवति तस्मात् सर्वेषां गणित्वकारणानामाचारधरत्वं प्रथमम् आद्यं प्रधानं वा गणिस्थानमिति ॥१०॥ इदानीं परिमाणम्, किं पुनरस्याध्ययनतः पदतश्च परिमाणम् ? इति अत आह नवबंभचेरमइओ अट्ठारसपयसहस्सिओ वेओ । हवइ य सपंचचूलो बहु-बहुतरओ पयग्गेणं ॥११॥ दारं ॥ नवेत्यादि । तत्राध्ययनतो नवब्रह्मचर्याभिधानाध्ययनात्मकोऽयम्, 20 १. ०दाचारा० क ग च । २. एसो सारो ख ठ । ३. ०मप्यङ्ग० ग, ०मङ्गानामपि प्रथ० घ ङ । ४. ०नस्य सारः ग घ ङ । ५. अत्रावस्थित० घ ङ। ६. ०ए पन्नाओ क । ७. य ब । ८. ०रो वुच्चइ झ । ९. यम्, अष्टाद० ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy