________________
प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने चतुर्थ उद्देशकः
४२३
उक्तस्तृतीयोद्देशकः । साम्प्रतं चतुर्थ आरभ्यते । अस्य चायमभिसम्बन्धः-इहानन्तरोद्देशके निरवद्यं तपोऽभिहितम्, तच्चाविकलं सत्संयमव्यवस्थितस्य भवतीत्यतः संयमप्रतिपादनाय चतुर्थोद्देशक इति । अनेन सम्बन्धेनायातस्यास्योद्देशकस्यादि सूत्रम्
[सू०१४३] आवीलए पवीलए णिप्पीलए जहित्ता 5 पुव्वसंजोगं हिच्चा उवसमं । तम्हा अविमणे वीरे सारए समिए सहिते सदा जते ।
दुरणुचरो मग्गो वीराणं अणियट्टगामीणं । विगिंच मंस-सोणितं ।
एस पुरिसे दविए वीरे आयाणिज्जे वियाहिते जे 10 धुणाति समुस्सयं वसित्ता बंभचेरंसि ।
आवीलए इत्यादि । आङ् ईषदर्थे, ईषत् पीडयेत् अविकृष्टेन तपसा शरीरकम् आपीडयेत् । एतच्च प्रथमप्रव्रज्यावसरे । तत ऊर्ध्वमधीतागमः परिणतार्थसद्भावः सन् प्रकर्षेण विकृष्टतपसा पीडयेत् प्रपीडयेत् । पुनरध्यापितान्तेवासिवर्गः सङ्क्रामितार्थसार: शरीरं तित्यक्षुर्मासा-ऽर्धमासक्षपणादिभिः 15 शरीरं निश्चयेन पीडयेद् निष्पीडयेत् । स्यात्-कर्मक्षयार्थं तपोऽनुष्ठीयते, स च पूजा-लाभ-ख्यात्यर्थेन तपसा न भवत्यतो निरर्थक एव शरीरपीडनोपदेश इति, अतोऽन्यथा व्याख्यायते-कर्मैव कार्मणं शरीरं वा आपीडयेत् प्रपीडयेद् निष्पीडयेत्, अत्रापीषदर्थादिका प्रकर्षगतिवसेया । यदि वा आपीडयेत् कर्म अपूर्वकरणादिकेषु सम्यग्दृष्ट्यादिषु गुणस्थानकेषु, ततोऽपूर्वकरणा-ऽनिवृत्ति- 20
१. ०स्थितस्याभवती० ग । २. आवीलये च । ३. ऊर्द्ध० ख ग ङ च । ४. स च प्रकर्षेण ख । ५. सङ्क्रमिता० क । ६. शरीरतित्यक्षु० ख । ७. तितिक्षु० ङ । ८. कार्मणशरीरं घ ङ च । ९. तत्रापी० घ।