________________
४२४
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे बादरयोः प्रपीडयेत्, सूक्ष्मसम्परायावस्थायां तु निष्पीडयेत् । अथवा आपीडनम् उपशमश्रेण्याम्, प्रपीडनं क्षपकश्रेण्याम्, निष्पीडनं तु शैलेश्यवस्थायामिति । किं कृत्वैतत् कुर्यात् ? इत्याह
जहित्ता इत्यादि । पूर्वः संयोगः पूर्वसंयोगः धन-धान्य-हिरण्य-पुत्रकलत्रादिकृतस्तं त्यक्त्वा । यदि वा पूर्वः असंयमः अनादिभवाभ्यासात्, तेन 5 संयोगः पूर्वसंयोगस्तं त्यक्त्वा, आवीलयेदित्यादिसम्बन्धः । किञ्च
हिच्चा इत्यादि । हि गतौ [पा० धा० १२५८] इत्यस्मात् पूर्वकाले क्त्वा हित्वा गत्वा, किं तत् ? उपशमम् इन्द्रिय-नोइन्द्रियजयरूपं संयमं वा गत्वा प्रतिपद्य, आपीडयेद् इति वर्तते । इदमुक्तं भवति-असंयमं त्यक्त्वा संयम
प्रतिपद्य तपश्चरणादिनाऽऽत्मानं कर्म वाऽऽपीडयेत् प्रपीडयेद् निष्पीडयेदिति । 10 यतः कर्मापीडनार्थमुपशमप्रतिपत्तिस्तत्प्रतिपत्तौ चाविमनस्कतेत्याह
तम्हा इत्यादि । यस्मात् कर्मक्षयायाऽसंयमपरित्यागः, तत्परित्यागे चावश्यम्भावी संयमः, तत्र च न चित्तवैमनस्यमिति, तस्माद् अविमना: विगतं भोग-कषायादिषु अरतौ वा मनो यस्य स विमनाः, यो न तथा सोऽविमनाः,
कोऽसौ ? वीरः कर्मविदारणसमर्थः । अविमनस्कत्वाच्च यत् स्यात् तद् आह15 सारये इत्यादि । सुष्ठ आ जीवनमर्यादया संयमानुष्ठाने रतः स्वारतः,
पञ्चभिः समितिभिः समितः, सह हितेन सहितो ज्ञानादिसमन्वितो वा सहितः, सदा सर्वकालं सकृदारोपितसंयमभार: संस्तत्र यतेत यत्नवान् भवेदिति । किमर्थं पुनः पौन:पुण्येन संयमानुष्ठानं प्रत्युपदेशो दीयते ? इत्याह
दुरनुचरो इत्यादि । दुःखेनानुचर्यत इति दुरनुचरः । कोऽसौ ? मार्गः 20 संयमानुष्ठानविधिः । केषां ? वीराणाम् अप्रमत्तयतीनाम् । किम्भूतानाम् ?
इत्याह-अणियट्ट इत्यादि अनिवर्तः मोक्षस्तत्र गन्तुं शीलं येषां ते तथा,
१. चइत्ता क । २. हेच्चा ख । ३. क्त्वा गत्वा हित्वा ख । ४. सारए ख, सारएत्यादि घ ङ । ५. ज्ञानादिभिरभिः) समन्वितो घ । ६. पुनः इति खप्रतौ नास्ति । ७. धीराणाम् च, "अप्पणिज्जे य गुरुसु य बहुवयणं, तेण वीराणं सामिस्स मग्गो सव्वतित्थगराणं वा" चूर्णौ ।