SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ४२२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे जे निव्वडा इत्यादि । ये तीर्थकरोपदेशवासितान्त:करणा विषयकषायाग्न्युपशमात् निर्वृताः शीतीभूता पापेषु कर्मसु अनिदानाः निदानरहितास्ते परमसुखास्पदतया व्याख्याताः, औपशमिकसुखभाक्त्वेन प्रसिद्धा इत्यर्थः । यत एवं ततः किम् ? इत्याह तम्हा इत्यादि । यस्माद् राग-द्वेषाभिभूतो दुःखभाग् भवति तस्मात् अतिविद्वान् विदितागमसद्भावः सन्न प्रतिसञ्वलेः क्रोधाग्निना नात्मानं दीपयेः, कषायोपशमं कुर्वित्यर्थः । इतिः अधिकारपरिसमाप्तौ । ब्रवीमि इति पूर्ववत् ॥ सम्यक्त्वाध्ययने तृतीयोद्देशकटीका समाप्ता ॥ छ ॥ छ । 5 १. क्रोधाग्निनाऽऽत्मानं नोद्दीपये: ख च । २. कुर्वीतेत्यर्थः ख-चपुस्तके विना । ३. अधिकारसमाप्तौ ग घ ङ। ४. परिसमाप्ता ख च, समाप्तेति घ ङ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy