SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ ४२१ प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने तृतीय उद्देशकः फासाइं च फासे । लोयं च पास विष्फंदमाणं । जे णिव्बुडा पावेहिं कम्मेहिं अणिदाणा ते वियाहिता । तम्हाऽतिविज्जो णो पडिसंजलेज्जासि त्ति बेमि ॥ ॥ सम्मत्तस्स तइओ उद्देसओ सम्मत्तो ॥ विगिंच कोहमित्यादि । कारणेऽकारणे वाऽतिक्रूराध्यवसायः क्रोधः तें 5 परित्यज । तस्य च कार्यं कम्पनम्, तत्प्रतिषेधं दर्शयति-अविकम्पमानः । किं विगणय्यैतत् कुर्यात् ? इत्याह इममित्यादि । इदं मनुष्यत्वं निरुद्धायुष्कं निरुद्धं परिगणितमायुष्कं सम्प्रेक्ष्य पर्यालोच्य क्रोधादिपरित्यागं विदध्यात् । किञ्च दुक्खमित्यादि । क्रोधाग्निना दन्दह्यमानस्य यद् मानसं दुःखमुत्पद्यते 10 तद् जानीहि, तज्जनितकर्मविपाकापादितं चागामि दुःखं सम्प्रेक्ष्य क्रोधादिकं प्रत्याख्यानपरिज्ञया जानीहि परित्यजेरित्यर्थः । आगामिदुःखस्वरूपमाह ___ पुढो इत्यादि । पृथक् सप्तनरक पृथिवीसम्भवशीतोष्णवेदनाकुम्भीपाकादियातनास्थानेषु स्पर्शान् दुःखानि । चः समुच्चये, न केवलं क्रोधाध्मातस्तस्मिन्नेव क्षणे दुःख मनुभवति आगामीनि पृथग् दुःखानि च स्पृशेत् 15 अनुभवेत् । तेन चातिदुःखेनापरोऽपि लोको दुःखित इत्येतदाह___ लोयं च इत्यादि । न केवलं क्रोधादिविपाकादात्मा दुःखान्यनुभवति लोकं च शारीर-मानसदुःखापन्नं विस्पन्दमानम् अस्वतन्त्रमितश्चेतश्च दुःखप्रेतीकाराय धावन्तं पश्य विवेकचक्षुषाऽवलोकय । ये त्वेवं न ते किम्भूता भवन्ति ? इत्यत आह 20 १. कोहं इत्यादि ख ग च । २. तं त्यजेत् क, तं त्यज ग । ३. विगणय्य तत् क । ४. इमं इत्यादि ख च । ५. परिगलित० च । ६. क्रोधापिना क, क्रोधादिना घ ङ च । ७. परित्यजेदित्यर्थः ख ग च । ८. पृथक् नरकपृथ्वी० ख । ९. स्पर्शदुःखानि ख । १०. ०मनुभवतीति घ । ११. तेन च दुःखेना० ख ग । १२. ०प्रतिकाराय ख । १३. इत्याह ख, अत आह ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy