SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे चतुर्थे सम्यक्त्वाध्ययने तृतीय उद्देशकः ४१७ क्रोधचतुष्टयम्, एवं मानादिचतुष्टयमपि योज्यम्, अन्यतरो वेदः हास्य- रतियुग्मम् अरति-शोकयुग्मं वा भयं जुगुप्सा चेति । भय - जुगुप्सयोरन्यतराभावे नव ९ । भावे अष्टौ ८ । अनन्तानुबन्ध्यभावे सप्त ७ । मिथ्यात्वाभावे षट् ६ । अप्रत्याख्यानोदयाभावे पञ्च ५ । प्रत्याख्यानावरणाभावे चत्वारि ४ । परिवर्तमानयुगलाभावे सञ्चलनान्यतरवेदोदये सति द्वे २ । वेदाभावे एकमिति 5 १। आयुषोऽप्येकमेवोदयस्थानम् - चतुर्णामायुषामन्यतरदिति । नाम्नो द्वादशोदयस्थानानि, तद्यथा - विंशतिः २० एकविंशतिः २१ चतुर्विंशति: २४ पञ्चविंशतिः २५ षड्विंशतिः २६ सप्तविंशतिः २७ अष्टाविंशतिः २८ एकोनत्रिंशत् २९ त्रिंशत् ३० एकत्रिंशत् ३१ नव ९ अष्टौ चेति 10 ८। तत्र संसारस्थानां सयोगिनां जीवानां दशोदयस्थानानि नाम्नो भवन्ति, अयोगिनां तु चरमद्वयमिति । अत्र च द्वादश ध्रुवोदयाः कर्मप्रकृतयः, तद्यथा - तैजसकार्मणशरीरे वर्ण-गन्ध-रस - स्पर्शचतुष्टयम् अगुरुलघु स्थिरम् अस्थिरं शुभम् अशुभं निर्माणमिति । तत्र विंशतिरतीर्थकरकेवलिनः समुद्घातगतस्य कार्मणशरीरयोगिनो भवति, तद्यथा - मनुष्यगतिः १ पञ्चेन्द्रियजातिः २ त्रसं ३ बादरं ४ 15 पर्याप्तकं ५ सुभगम् ६ आदेयं ७ यशः कीर्तिरिति ८ ध्रुवोदयसहिता विंशतिः २०। एकविंशत्यादीनि तूदयस्थानानि एकत्रिंशत्पर्यन्तानि जीव-गुणस्थानभेदादनेकभेदानि भवन्ति, तानि चेह ग्रन्थगौरवभयात् प्रत्येकं नोच्यन्त इति, अत एकैकभेदावेदनं क्रियते - तत्रैकविंशतिः गतिः १ जाति: २ आनुपूर्वी ३ त्रसं ४ बादरं ५ पर्याप्ता-पर्याप्तयोरन्यतरत् ६ सुभग- दुर्भगयोरन्यतरत् ७ आदेया- 20 ऽनादेययोरन्यतरत् ८ यशःकीर्ति-अयशः कीर्त्योरन्यतरत् ९ एताश्च नव ध्रुवोदय - सहिता एकविंशतिः २१। चतुर्विंशतिस्तु तिर्यग्गतिः १ एकेन्द्रियजातिः २ औदारिकं ३ हुण्डसंस्थानम् ४ उपघातं ५ प्रत्येक - साधारणयोरन्यतरत् ६ स्थावरं ७ सूक्ष्म-बादरयोरन्यतरत् ८ दुर्भगम् ९ अनादेयम् १० अपर्याप्तकं ११ १. तद्यथा इति खप्रतौ नास्ति । २. पर्याप्तं ग । ३. ०गुणस्थानोदयभेदा० ख । ४. ० पर्याप्तकयो ० ख ग । ५ अपर्याप्तं ग ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy