________________
४१८
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे यश:कीर्ति-अयश:कीोरन्यतरदिति १२। तत्रैवापर्याप्तकापनयने पर्याप्तकपराघाताभ्यां प्रक्षिप्ताभ्यां पञ्चविंशतिः २५। षड्विंशतिस्तु याऽसौ सयोगिकेवलिनो विंशतिरभिहिता सैवौदारिकशरीरा-ऽङ्गोपाङ्गद्वया-ऽन्यतरसंस्थाना
ऽऽद्यसंहनन-उपघात-प्रत्येकसहिता वेदितव्या मिश्रकाययोगे वर्तमानस्य २६। 5 सैव तीर्थकरनामसहिता केवलिसमुदघातवतो मिश्रकाययोगिन एव सप्तविंशतिः २७। सैव प्रशस्तविहायोगतिसमन्विताऽष्टाविंशतिः २८। तत्र तीर्थकरनामापनयने उच्छास-सुस्वर-पराघातप्रक्षेपे सति त्रिंशद् भवति ३०। तत्र स्वरे निरुद्ध एकोनत्रिंशत् २९। सैव त्रिंशत् तीर्थकरनामसहिता एकत्रिंशत् ३१। नवोदयस्तु
मनुष्यगति: १ पञ्चेन्द्रियजाति: २ त्रसं ३ बादरं ४ पर्याप्तकं ५ सुभगम् ६ आदेयं 10 ७ यश:कीति: ८ तीर्थकरमिति ९, एता अयोगितीर्थकरकेवलिनः । एता एव तीर्थकरनामरहिता अष्टाविति ८/
गोत्रस्यैकमेव सामान्येनोदयस्थानम्-उच्च-नीचयोरन्यतरत्, यौगपद्येनोदयभावो नास्ति विरोधादिति ।
तदेवमुदयभेदैरनेकप्रकारतां कर्मणः परिज्ञाय प्रत्याख्यान परिज्ञामुदा15 हरन्तीति । यदि नाम कर्मपरिज्ञामुदाहरन्ति ततः किं कार्यम् ? इत्याह
[सू०१४१] इह आणाकंखी पंडिते अणिहे एगमप्पाणं सपेहाए धुणे सरीरं, कसेहि अप्पाणं, जरेहि अप्पाणं । जहा जुन्नाई कट्ठाई हव्ववाहो पमत्थति एवं अत्तसमाहिते अणिहे।
इहेत्यादि । इह अस्मिन् प्रवचने आज्ञामाकाक्षितुं शीलमस्येति
१. याऽसौ केवलिनो ख-चप्रती ऋते । २. सैव पराघात-उच्छास-प्रशस्तविहायोगतिसुस्वरप्रकृतिषु प्रक्षिप्तास्वेकत्रिंशत् । सैव अतीर्थकरस्य त्रिंशत् । तस्यैव व(च) स्वरे निरुद्धे एकोनत्रिंशत् । उच्छ्वासे निरुद्धे अष्टाविंशतिरिति । नवेदयस्तु ग । ३. ०र-यश:कीर्तिप्रक्षेपे क ख । ४. सामान्योदय० क घ ङ । ५. यौगपद्येनोदयाभावो विरोधादिति ख ग च । ६. कर्मप्रतिज्ञा० ख, कर्म प्रति परिज्ञा० च । ७. इह इत्यादि ग ङ ।