________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे सर्वविदः प्रावादिकाः प्रकर्षण आ मर्यादया वदितुं शीलं येषां ते प्रावादिनः त एव प्रावादिकाः यथावस्थितार्थस्य प्रतिपादनाय वावदूकाः, दुःखस्य शारीरमानसलक्षणस्य तदुपादानस्य वा कर्मणः कुशलाः निपुणास्तदपनोदोपायवेदिनः
सन्तस्ते सर्वेऽपि ज्ञपरिज्ञया परिज्ञाय हेयार्थस्य प्रत्याख्यानपरिज्ञामुदाहरन्ति । इतिः 5 उपप्रदर्शने, इत्येवं पूर्वोक्तया नीत्या कर्मबन्ध-उदय-सत्कर्मताविधानतः परिज्ञाय
सर्वशः सर्वैः प्रकारैः कुशलाः प्रत्याख्यानपरिज्ञामुदाहरन्ति । यदि वा मूलोत्तरप्रकृतिप्रकारैः सर्वैः परिज्ञायेति मूलप्रकारा अष्टौ, उत्तरप्रकृतिप्रकारा अष्टपञ्चाशदुत्तरं शतम् । अथवा प्रकृति-स्थिति-अनुभाव-प्रदेशप्रकारैः । यदि वोदयप्रकारैर्बन्ध-सत्कर्मताकार्यभूतैरागामिबन्ध-सत्कर्मताकारणैश्च कर्म 10 परिज्ञायेति । ते चामी उदयप्रकाराः, तद्यथा
मूलप्रकृतीनां त्रीण्युदयस्थानानि-अष्टविधं सप्तविधं चतुर्विधमिति । तत्राष्टाऽपि कर्मप्रकृतीयौगपद्येन वेदयतोऽष्टविधम्, तच्च कालतोऽनादिकमपर्यवसितमभव्यानाम्, भव्यानां त्वनादिसपर्यवसितं सादिसपर्यवसितं चेति । मोहनीयोपशमे क्षये वा सप्तविधम् । घातिक्षये चतुर्विधमिति ।
साम्प्रतमुत्तरप्रकृतीनामुदयस्थानान्युच्यन्ते तत्र ज्ञानावरणीया-ऽन्तराययोः पञ्चप्रकारं एकमुदयस्थानम् ।
दर्शनावरणीयस्य द्वे-दर्शनचतुष्कस्योदयात् चत्वारि, अन्यतरनिद्रया सह पञ्च ।
वेदनीयस्य सामान्येनैकमुदयस्थानं सातमसातं वेति, विरोधाद् यौग20 पद्योदयाभावः ।
मोहनीयस्य सामान्येन नवोदयस्थानानि, तद्यथा-दश १० नव ९ अष्टौ ८ सप्त ७ षड् ६ पञ्च ५ चत्वारि ४ द्वे २ एकं १ चेति । तत्र दश-मिथ्यात्वम् अनन्तानुबन्धी क्रोधोऽप्रत्याख्यानः प्रत्याख्यानावरणः सज्वलनश्चेत्येतत्
१. आ इति ख-गप्रत्योरेव । २. प्रवचनाय ख। ३. ०दुत्तरं च शतम् ख ।