________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः तस्सेगट्ठ पवत्तण पढमंग गणी तहेव परिमाणे । समोतारे सारे या सत्तहिं दारेहिं नाणत्तं ॥६॥
तस्सेत्यादि गाथा । तस्य भावाचारस्यैकार्थाभिधायिनो वाच्याः । तथा केन प्रकारेण प्रवृत्तिः प्रवर्तनाऽऽचारस्याभूत् ? तच्च वाच्यम् । तथा प्रथमाङ्गता च वाच्या । तथा गणी आचार्यस्तस्य कतिथं स्थानमिदम् ? इति च वाच्यम् । 5 तथा परिमाणम् इयत्ता वाच्या । तथा किं क्व समवतरति ? इत्येतेच्च वाच्यम् । तथा सारश्च वाच्यः । इत्येभिरिः पूर्वस्माद् भावाचाराद् अस्य भेदो नानात्वमिति पिण्डार्थः ॥६॥ अवयवार्थं तु नियुक्तिकृदेवाभिधातुमाह
आयारो आचालो आगालो आगरो य आसासो । आयरिसो अंगं ति य आइण्णाऽऽजाई आमोक्खो ॥७॥ दारं ॥ 10
आयोरो० इत्यादि । आचर्यते आसेव्यते इत्याचारः । स च नामादिश्चतुर्धा । तत्र ज्ञशरीर-भव्यशरीर-तद्व्यतिरिक्तो द्रव्याचारोऽनया गाथयाऽनुसर्तव्यः
नामण धोयण वासण सिक्खावण सुकरणाविरोहीणि । दव्वाणि जाणि लोए दव्वायारं वियाणाहि ॥
[निशी० पीठिका गा० ६, दशवै० नि० १८०] 15 भावाचारो द्वेधा-लौकिको लोकोत्तरश्च । तत्र लौकिक: पाषण्डिकादयः पञ्चरात्रादिकं यत् कुर्वन्ति स विज्ञेयः । लोकोत्तरेश्च पञ्चधा ज्ञानादिकः । तत्र ज्ञानाचारोऽष्टधा, तद्यथा
काले विणए बहुमाणे उवहाणे तहा अनिण्हवणे । वंजण अत्थ तदुभए अट्ठविहो णाणमायारो ॥
[निशी० पी० गा० ८, दशवै० नि० १८४]
१. ०दि । तस्य ग । २. ०र्तनमाचार० ग । ३. ०तद्वाच्यम् ख । ४. "पूर्वस्मादिति क्षुल्लिकाचारात्" जै०वि०प० । ५. ०लो तग्गिरो य छ । ६. आगरिसो ख झ, आदरिसो ब । ७. ०गं चिय झ । ८. आचिण्णा० छ । ९. ०इ यामोक्खो ख ज ञ, ०इ यामोक्खे झ, ०इ यामुक्खो ठ, १०. आमोक्खे छ । ११. ०यारे इ० ग घ च । १२. आचार्यते ग घ च । १३. ते सेव्य० ख । १४. द्विधा ग च । १५. रस्तु प० ग घ ङ। .