________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे परिज्ञाशब्दा नामनिष्पन्ने निक्षेपे द्रष्टव्याः । अङ्ग श्रुत-स्कन्धशब्दा ओघनिष्पन्ने । संज्ञा-दिक्शब्दौ तु सूत्रालापकनिष्पन्ने निक्षेपे द्रष्टव्याविति ॥२॥ एतेषां मध्ये कस्य कतिविधो निक्षेपः ? इत्यत आह
चरण-दिसावज्जाणं निक्खेवो चउविहो उ नायव्यो । 5 चरणम्मि छव्विहो खलु सत्तविहो होइ उ दिसाणं ॥३॥
चरणेत्यादि । चरण-दिग्वर्जानां चतुर्विधो निक्षेपः । चरणस्य षड्विधः, दिक्शब्दस्य सप्तधा निक्षेपः । अत्र च क्षेत्र-कालादिकं यथासम्भवमायोज्यम् । नामादिचतुष्टयं तु सर्वव्यापीति दर्शयितुमाह
जत्थ य जं जाणेज्जा निक्खेवं निक्खिवे निरवसेसं । 10 जत्थ वि य ण जाणेज्जा चउक्यं निक्खिवे तत्थ ॥४॥
जत्थ य जमित्यादि । यत्र चरण-दिक्शब्दादौ यं निक्षेपं क्षेत्र-कालादिकं जानीयात् तं तत्र निरवशेषं निक्षिपेत्, यत्र तु विशेषं न जानीयाद् आचारा-ऽङ्गादौ तत्रापि नाम-स्थापना-द्रव्य-भावचतुष्कात्मकं निक्षेपं निक्षिपेदित्युपदेश इति गाथार्थः ॥४॥
प्रदेशान्तरप्रसिद्धस्यार्थस्य लाघवमिच्छता नियुक्तिकारेण गाथाऽभ्यधायि । आयारे अंगम्मि य पुव्वुद्दिट्ठो चउक्वनिक्खेवो। नवरं पुण नाणत्तं भावायारम्मि तं वोच्छं ॥५॥
आयारे इत्यादि । क्षुल्लिकाचारकथायामाचारस्य पूर्वोद्दिष्टो निक्षेपः । अङ्गस्य तु चतुरङ्गाध्ययन इति, यश्चात्र विशेषः सोऽभिधीयते भावाचारविषय 20 इति ॥५॥ यथाप्रतिज्ञातमाह
१. एषां ख घ च । २. चउक्कओ य ना० झ, चउव्विहो । ठ । ३. छव्विहे झ, छव्विहं ब । ४. हु ख । ५. सप्तविधो नि० ग ङ। ६. ०यं सर्व कप्रति विना । ७. वि न य जा० छ। ८. यत्र निरवशेषं न घ ङ च । ९. ०रसिद्ध० घ ङ। १०. ०रेत्या० ग घ ङ विना । ११. क्षुल्लकाचारे क० ग । १२. ०स्य चतु० च ।