________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः वंदित्तु सव्वसिद्धे० इत्यादि । तत्र वन्दित्वा सर्वसिद्धान् जिनांश्चेति मङ्गलवचनम् । अनुयोगदायकानित्येतच्च सम्बन्धवचनमपि । आचारस्येत्यभिधेयवचनम् । नियुक्तिं करिष्ये इति प्रयोजनकथनमिति तात्पर्यार्थः ।
अवयवार्थस्तु वन्दित्वा इति वदि अभिवादन-स्तुत्योः [पा० धा०११] इत्यर्थद्वयाभिधायी धातुः, तत्राभिवादनं कायेन, स्तुतिर्वाचा, अनयोश्च 5 मनःपूर्वकत्वात् करणत्रयेणापि नमस्कार आवेदितो भवति । सितं ध्मातमेषामिति सिद्धाः प्रक्षीणाशेषकर्माणः, सर्वे च ते सिद्धाश्च सर्वसिद्धाः, सर्वग्रहणं तीर्थाऽतीर्था-ऽनन्तर-परम्परादिसिद्धप्रतिपादकम्, तान् । वन्दित्वेति सम्बन्धः सर्वत्र योज्यः ।
राग-द्वेषजितो जिनाः तीर्थकृतस्तानपि सर्वान् अतीता-ऽनागत-वर्तमान- 10 सर्वक्षेत्रगतानिति। अनुयोगदायिनः सुधर्मस्वामिप्रभृतयो यावदस्य भगवतो नियुक्तिकारस्य भद्रबाहुस्वामिनश्चतुर्दशपूर्वधरस्याचार्यः, अतस्तान् सर्वानिति । अनेन चाम्नायकथनेन स्वमनीषिकाव्युदासः कृतो भवति । वन्दित्वा इति क्त्वाप्रत्ययस्योत्तरक्रियासव्यपेक्षत्वाद् उत्तरक्रियामाह-आचारस्य यथार्थनाम्नः, भगवत इति अर्थ-धर्म-प्रयत्नगुणभाजः । तस्यैवंविधस्य निश्चयेनार्थप्रतिपादिका 15 युक्तिनियुक्तिः, तां कीर्तयिष्ये अभिधास्ये इति, अन्तस्तत्त्वेन निष्पन्नां नियुक्ति बहिस्तत्त्वेन प्रकाशयिष्यामीत्यर्थः ॥१॥ [यथाप्रतिज्ञातमेव बिभणिषुर्निक्षेपार्हाणि पदानि तावत् सुहृद् भूत्वाऽऽचार्यः सम्पिण्ड्य कथयति
आयार अंग सय खंध बंभ चरणे तहेव सत्थे य । परिणाए सन्नाए निक्खेवो तह दिसाणं च ॥२॥
आयारेत्यादि । आचार-अङ्ग-श्रुत-स्कन्ध-ब्रह्म-चरण-शस्त्र-परिज्ञासंज्ञा-दिशामित्येतेषां निक्षेपः कर्तव्य इति । तत्राचार-ब्रह्म-चरण-शस्त्र
: पश्चात् कृतम् । "सम्बन्धवचनमपि इति न केवल(लं)मङ्गलवचनम्, गुरुपर्वक्रमसम्बन्धकथनमपि" जै०वि०प० । २. स्वमनीषिकाया व्यु० ख । ३. ०व्यपेक्षकत्वाद् ग । ४. तहा दि० ख छ ज ज । ५. आयारे इत्या० ग च विना आचारेत्या० ङ । ६. दिशां निक्षे० ख ।