________________
६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
काल- भावभेदात् षोढैव । निक्षेपणमनेनास्मादस्मिन्निति वा निक्षेप:, उपक्रमानीतस्य व्याचिख्यासितशास्त्रस्य नामादिन्यसनमित्यर्थः । स च त्रिविधः, तद्यथा—ओघनिष्पन्नो नामनिष्पन्नः सूत्रालापकनिष्पन्नश्च । तत्रौघ - निष्पन्नोऽ ऽङ्गाऽध्ययनादिसामान्याभिधानन्यासः । नामनिष्पन्न आचार - शस्त्र-परिज्ञादि5 विशेषाभिधाननामादिन्यासः । सूत्रालापकनिष्पन्नश्च सूत्रालापकानां नामादिन्यसनमिति । अनुगमनमनेनास्मादस्मिन्निति वाऽनुगमः अर्थकथनमित्यर्थः । स च द्वेधा-निर्युक्त्यनुगमः सूत्रानुगमश्चेति । तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा— निक्षेपनिर्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सूत्रस्पर्शिकनिर्युक्त्यनुगमश्चेति । तत्र निक्षेपनिर्युक्त्यनुगमो निक्षेप एव सामान्य विशेषाभिधानयोरो घनिष्पन्न10 नामनिष्पन्नाभ्यां निक्षेपाभ्यामनुगतः, सूत्रापेक्षया वक्ष्यमाणलक्षणश्चेति । उपोद्घातनिर्युक्त्यनुगमश्चाभ्यां द्वारगाथाभ्यामनुगन्तव्यः, तद्यथा
उद्देसे निद्देसे य निग्गमे खेत्तकालपुरिसे य । कारणपच्चयलक्खण नए समोयारणाणुमए ॥
किं कइविहं कस्स कहिं केसु कहं केचिरं हवइ कालं ।
15
कइ संतरमविरहियं भवागरिस फासणनिरुत्ती ॥ [ आव० नि० १४०-१४१] सूत्रस्पर्शिकनिर्युक्त्यनुगमः सूत्रावयवानां नयैः साक्षेप - परिहारमर्थकथनम्। स च सूत्रे सति भवति, सूत्रं च सूत्रानुगमे । स च सूत्रोच्चारणरूप: पदच्छेदरूपश्चेति । अनन्तधर्माध्यासितं वस्त्वेकेनैव धर्मेण नयन्ति परिच्छिन्दन्तीति ज्ञानविशेषा नयाः, ते च नैगमादयः सप्तेति । साम्प्रतमाचाराङ्ग20 स्योपक्रमादीनामनुयोगद्वाराणां यथायोगं किञ्चिद्विभणिषुरशेषप्रत्यूहोपशमनाय मङ्गलार्थं प्रेक्षापूर्वकारिणां च प्रवृत्त्यर्थं सम्बन्धा -ऽभिधेय-प्रयोजनप्रतिपादिकां निर्युक्तिकारो गाथामाह—
---
वंदित्तु सव्वसिद्धे, जिणे य अणुओगदायए सव्वे । आयारस्स भगवेओ निज्जुत्तिं कित्तइस्सामि ॥१॥
१. ०धः - ओघ ० ख । २. द्विधा ख घ ङ च । ३. केच्चिरं ग च, किच्चिरं घ ङ । ४. ०नुयोगं कि० ख । ५. ०वतो णिज्जु० ख ।