________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः आर्यदेशोद्भूतः सुखावबोधवचनो भवत्यतो देशग्रहणम् । पैतृकं कुलमिक्ष्वाक्वादि, ज्ञातकुलश्च यथोत्क्षिप्तभारवहने न श्राम्यतीति । मातृकी जातिः, तत्सम्पन्नो विनयादिगुणवान् भवति । 'यत्राकृतिस्तत्र गुणा वसन्ति' इति रूपग्रहणम् । संहनन-धृतियुतो व्याख्यानादिषु न खेदमेति । अनाशंसी श्रोतृभ्यो न वस्त्राद्याकाङ्क्षति । अविकत्थनः हित-मितभाषी । अमायी सर्वत्र विश्वास्यः। 5 स्थिरपरिपाटिः परिचितग्रन्थस्य सूत्रार्थगलनासम्भवात् । ग्राह्यवाक्यः सर्वत्रास्खलिताज्ञः । जितपर्षद् राजादिसदसि न क्षोभमुपयाति । जितनिद्रः अप्रमत्तत्वाद् निद्राप्रमादिनः शिष्यान् सुखेनैव प्रबोधयति । मध्यस्थ: शिष्येषु समचित्तो भवति । देश-काल-भावज्ञः सुखेनैव गुणवद्देशादौ विहरिष्यति । आसन्नलब्धप्रतिभो द्राक् परवाद्युत्तरदानसमर्थो भवति । नानाविधदेशभाषा- 10 विधिज्ञस्य नानादेशजाः शिष्याः सुखं व्याख्यामवभोत्स्यन्ते । ज्ञानाद्याचारपञ्चकयुक्तः श्रद्धेयवचनो भवति । सूत्रा-ऽर्थ-तदुभयविधिज्ञ उत्सर्गाऽपवादप्रपञ्चं यथावद् ज्ञापयिष्यति । हेतूदाहरण-निमित्त-नयप्रपञ्चज्ञः अनाकुलो हेत्वादीनाचष्टेग्राहणाकुशलो बह्वीभिर्युक्तिभिः शिष्यान् बोधयति । स्वसमयपरसमयज्ञः सुखेनैव तत्स्थापनोच्छेदौ करिष्यति । गम्भीरः खेदसहः । दीप्तिमान् 15 पराधृष्यः । शिवहेतुत्वात् शिवः, तदधिष्ठितदेशे मार्याद्युपशमनात् । सौम्यः सर्वजनमनो-नयनरमणीयः । गुणशतकलितः प्रश्रयादिगुणोपेतः । एवंविधः सूरिः प्रवचनानुयोगे योग्यो भवति ।
___ तस्य चानुयोगस्य महापुरस्येव चत्वार्यनुयोगद्वाराणि-व्याख्याङ्गानि भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नयः । तत्रोपक्रमणमुपक्रमः, उपक्रम्यते- 20 ऽनेनास्मादस्मिन्निति वोपक्रमः, व्याचिख्यासितशास्त्रसमीपानयनमित्यर्थः । स च शास्त्रीय-लौकिकभेदाद् द्विधा । तत्र शास्त्रीय आनुपूर्वी नाम प्रमाणं वक्तव्यताऽर्थाधिकारः समवतारश्चेति षोढा । लौकिको नाम-स्थापना-द्रव्य-क्षेत्र
१. ०शोद्भवः सु० ग । २. भवतीत्यतो ग । ३. कुलमैक्ष्वाक्वादि क ख च । ४. ०ख्यादिषु घ । ५. ०परिषद् रा० ख घ ङ च । ६. ०व बोध० ख ग च । ७. नानाविधदे० च। ८. शिष्या व्याख्यानं सुखमव० ग । ९. ०जननयन-मनोरम० ग । १०. ०ख्यानाङ्गानि ग घ ङ। ११. नयश्च । तत्रो० क च । १२. ०स्त्रस्य समी० ग । १३. ०ति । लौ० क ग घ ङ च ।