________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे निक्खेवेगनि:त्तिविहिपवित्ती य केन वा कस्स । तद्दारभेयलक्खण तदरिहपरिसा य सुत्तत्थो ॥ [ दश० वै० नि० गा० ५ ]
तत्र निक्षेपो नामादिः सप्तधा । नाम-स्थापने क्षुण्णे । द्रव्यानुयोगो द्वेधाआगमतो नोआगमतश्च । तत्रागमतो ज्ञाता तत्र चानुपयुक्तः । नोआगमतो ज्ञशरीरभव्यशरीर-तद्व्यतिरिक्तोऽनेकधा, द्रव्येण सेटिकादिना द्रव्यस्यात्मपरमाण्वाादेर्द्रव्ये निषद्यादौ वा । क्षेत्रानुयोगः क्षेत्रेण क्षेत्रस्य क्षेत्रे वाऽनुयोगः । एवं कालेन कालस्य काले वाऽनुयोगः कालानुयोगः । एवं वचनानुयोग एकवचनादिना । भावानुयोगो द्वेधा-आगमतो नोआगमतश्च । तत्रागमतो
ज्ञातोपयुक्तः । नोआगमतस्तु औपशमिकादिभावैः, तेषां वाऽनुयोग:-अर्थकथनं 10 भावानुयोगः । शेषमावश्यकानुसारेण नेयम् । केवलमिहानुयोगस्य प्रस्तुतत्वात्
तस्य चाचार्याधीनत्वात् केन इति द्वारं विव्रियते, तथा उपक्रमादीनि च द्वाराणि प्रचुरतरोपयोगित्वात् प्रदर्श्यन्त इति । तत्र 'केन' इति कथम्भूतेन ?, यथाभूतेन च सूरिणा व्याख्या कर्तव्या तथा दर्शाते
देस-कुल-जाति-रूवी संघयण-धिईजुतो अणासंसी । अविकत्थणो अमादी थिरपरिवाडी गहियवक्को ॥ जियपरिसो जियनिद्दो मज्झत्थो देस-काल-भावण्णू । आसन्नलद्धपतिभो नाणाविहदेसभासण्णू ॥ पंचविहे आयारे जुत्तो सुत्त-ऽत्थ-तदुभयविहिण्णू । आहरण-हेउ-कारण-नयनिउणो गाहणाकुसलो ॥ ससमय-परसमयविऊ गंभीरो दित्तिमं सिवो सोमो । गुणसयकलिओ जुत्तो पवयणसारं परिकहेउं ॥ [बृ०क०भा० २४१-२४४]
१. ०रुत्तवि० ख । २. तयरि० ग । ३. द्विधा ग । ४. "सेटिका इति खटिका' जै०वि०प० । ५. ०दौ वा । क्षेत्रेण ख, ०दौ । क्षेत्रानु० ग ङ। ६. ०ग: क्षेत्रानुयोगः एवं ख च। ७. द्विधा ग । ८. ०श्च । आगम० ख घ ङ च । ९. ज्ञेयम् । ग च । १०. ०नि द्वा० ख। ११. ०न सू० ख । १२. प्रदर्श्यते ग घ ङ च । १३. रूवी संघयणी धीजुतो ख च, ०रूवी संघयणी धिइजुतो क ग । १४. अविकंथणो ख ग घ ङ।