________________
प्रथमे श्रुतस्कन्धे प्रथममध्ययनम् । प्रथम उद्देशकः श्रुतज्ञानम्, तच्च नन्द्यन्त:पातित्वाद् मङ्गलमिति । एतच्चाविघ्ने नाभिलषितशास्त्रार्थपारगमनकारणम् । मध्यमङ्गलं लोकसाराध्ययनपञ्चमोद्देशकसूत्रम्से० जहा वि हरए पडिपुण्णे चिट्ठइ समंसि भोमे उवसंतरए सारक्खमीणेत्यादि, अत्र च हृदगुणैराचार्यगुणोत्कीर्तनम्, आचार्यश्च पञ्चनमस्कारान्त:पातित्वाद् मङ्गलमिति । एतच्चाभिलषितशास्त्रार्थस्थिरीकरणार्थम् । 5 अवसानमङ्गलं नवमाध्ययनेऽवसानसूत्रम्-अभिणिव्वुडे अमाई, आवकहाए भयवं समियासी, अत्राभिनिर्वृतग्रहणं संसारमहातरुकन्दोच्छेदाविप्रतिपत्त्या ध्यानकारित्वाद् मङ्गलमिति, एतच्च शिष्य-प्रतिशिष्यसन्तानाव्यवच्छेदार्थमिति । अध्ययनगतसूत्रमङ्गलत्वप्रतिपादनेनैवाध्ययनानामपि मङ्गलत्वमुक्तमेवेति न प्रतन्यते । सर्वमेव वा शास्त्रं मङ्गलम्, ज्ञानरूपत्वात् ज्ञानस्य च निर्जरार्थत्वात्, 10 निर्जरार्थत्वेन च तस्याविप्रतिपत्तिः । यत उक्तम्
जं अण्णाणी कम्मं खवेति बहुयाहि वासकोडीहिं ।
तं नाणी तिहिँ गुत्तो खवेइ ऊसासमेत्तेण ॥ [ बृ० क० भा० ११७० ]
मङ्गलशब्दनिरुक्तं च मां गालयति-अपनयति भवादिति मङ्गलम्, मा भूद् गल: विघ्नः, गालो वा-विनाशः शास्त्रस्येति मङ्गलमित्यादि । शेषं त्वाक्षेप- 15 परिहारादिकमन्यतोऽवसेयमिति ।
साम्प्रतमाचारानुयोगः प्रारभ्यते-आचारस्यानुयोगः अर्थकथनम् आचारानुयोगः, सूत्राद् अनु पश्चाद् अर्थस्य योगोऽनुयोगः, सूत्राध्ययनात् पश्चादर्थकथनमिति भावना । अणोर्वा-लघीयसः सूत्रस्य महताऽर्थेन योगोऽणुयोगः । स चामीभिारैरनुगन्तव्यः, तद्यथा
20
१. "नन्द्यन्तः इति नन्दिध्वनिना ज्ञानपञ्चकं गृहीतम्" जै०वि०प० । २. जहा केवि ख ग च । ३. "हरए इति हृदः" जै०वि०प० । ४. ०क्खमाणे० घ ङ । ५. ०णे इत्यादि ग । ६. आचार्यस्य पञ्च० च । ७. ०च्छेदप्रति० घ । ०च्छेद्यविप्रति० ग च, ०च्छेद्याविप्रति० ङ, "छेद्यविप्रति इति । संशयविपर्यया-ऽनध्यवसायरहितं ज्ञानम्' जै०वि०प० । ८. ०मित्येव तच्च ग । ९. ०त् तस्य । ज्ञान० ग ङ। १०. ०स्य निर्ज० क । ११. वा विनाश: ख ।