SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ 10 शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इह हि राग-द्वेष-मोहाद्यभिभूतेन संसारिजन्तुना शारीर-मानसानेकातिकटुकदुःखोपनिपातपीडितेन तदपनयनाय हेयोपादेयपदार्थपरिज्ञाने यत्नो विधेयः, स च न विशिष्टविवेक मृते, विशिष्टविवेकश्च न प्राप्ताशेषातिशय कलापाप्तोपदेशमन्तरेण, आप्तश्च राग-द्वेष-मोहादीनां दोषाणामात्यन्तिकप्रक्षयात्, 5 से चाऽर्हत एव, अतः प्रारभ्यतेऽर्हद्वचनानुयोगः । स च चतुर्धा, तद्यथा-धर्म कथानुयोगो गणितानुयोगो द्रव्यानुयोगश्चरणकरणानुयोगश्चेति । तत्र धर्मकथानुयोग उत्तराध्ययनादिकः, गणितानुयोगः सूर्यप्रज्ञप्त्यादिकः, द्रव्यानुयोगः पूर्वाणि सम्मत्यादिकश्च, चरणकरणानुयोगश्चाऽऽचारादिकः, स च प्रधानतमः, शेषाणां तदर्थत्वात् । तदुक्तम् चरणपडिवत्तिहेडं, जेणियरे तिण्णि अनुयोग । [ ] त्ति । तथा चरणपडिवत्तिहेउं, धम्मकहा-कालदिक्खमादीया । दविए दसणसोही, दंसणसुद्धस्स चरणं तु ॥ [ ] गणधरैरप्यत एव तस्यैवादौ प्रणयनमकारि । अतस्तत्प्रतिपादकस्या15 ऽऽचाराङ्गस्यानुयोगः समारभ्यते । स च परमपदप्राप्तिहेतुत्वात् सविघ्नः । तदुक्तम् श्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥ [ ] तस्मादशेषप्रत्यूहोपशमनाय मङ्गलमभिधेयम् । तच्चाऽऽदि-मध्या20 ऽवसानभेदात् त्रिधा । तत्रादिमङ्गलम्-सुयं मे आउसं ! १२तेणं भगवया एवमक्खायमित्यादि, अत्र च भगवद्वचनानुवादो मङ्गलम् । अथवा श्रुतमिति १. ०हाभिभू० क । २. ०न सर्वेणापि जन्तुना ग । ३. सातिक० क घ । ०सानेककटुकदुःखौघनिपा० ग, सानेककटु० च । ४. ०पादेयार्थप० ख । ५. स च आत्यन्तिकप्रक्षयः । ६. स चतु० ग च । ७. "सम्मतीति अभयदेवादि'' जै०वि०प० । ८. "धम्मकहेति अनेन धर्मकथानुयोगभणन[म्], कालेति एतेन गणितानुयोगस्य' जै०वि०प० । ९. ०कालि दिक्ख० क घ ङ। १०. दंसणसुद्धी ग । ११. ०शमाय ख । १२. तेण ग । १३. तत्र ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy