________________
॥ अर्हम् ॥ पञ्चमगणधरदेवश्री सुधर्मस्वामिपरम्परायातं श्रुतकेवलिभद्रबाहुस्वामिसन्दृब्धनियुक्तियुतं
श्री शीलाचार्यविरचितविवरणविभूषितं श्री आचाराङ्गसूत्रम् ।
प्रथमः श्रुतस्कन्धः । प्रथमं शस्त्रपरिज्ञाध्ययनम् ।
प्रथम उद्देशकः ।
॥ ४ नमः सर्वज्ञाय ॥ जयति समस्तवस्तुपर्यायविचारापास्ततीर्थिकम्, विहितैकैकतीर्थनयवादसमूहवशात् प्रतिष्ठितम् । बहुतिथभङ्गिसिद्धसिद्धान्तविधूनितमलमलीमसम्, तीर्थमनादिनिधनगतमनुपममादिनतं जिनेश्वरैः ॥१॥ आचारशास्त्रं सुविनिश्चितं यथा, जगाद वीरो जगते हिताय यः। 15 तथैव किञ्चिद् गदतः स एव मे, पुनातु धीमान् विनयार्पिता गिरः ।।२।। शस्त्रपरिज्ञाविवरणमतिबहु गहनं च गन्धहस्तिकृतम् । तस्मात् सुखबोधार्थम्, गृह्णाम्यहमञ्जसा सारम् ॥३॥
10
★ अत्रेदमवधेयम्- आचाराङ्गसूत्रस्य शीलाचार्यविरचितटीकासहित: अध्ययनचतुष्टयात्मको भाग: आगमप्रभाकरमुनिराजश्रीपुण्यविजयजीमहाराजस्य अन्तेवासितुल्येन गृहस्थेन श्रावकेण पं० अमृतलालभाई मोहनलाल भोजकेन संशोधितो तेनैव च स्वहस्तेन लिखितोऽस्माकं हस्ते समायातोऽधुना । स यथालब्ध एव सम्प्रति प्रकाश्यते मया जम्बूविजयेन । तत्र क ख ग इत्यादि संकेतैः बहवः पाठभेदा निर्दिष्टाः । किन्तु तेषां संकेतानां कोऽर्थ इति न ज्ञायतेऽस्माभिः । क ख ग इत्यादयो हस्तलिखिता आदर्शाः कुत्रत्या इति वयं न जानीमः । पं० अमृतलालभाई महोदयोऽपि दिवंगत इति अवार्थे प्रष्टव्यः कोऽपि नास्ति । -इति जम्बूविजयेन निवेद्यते ।। १ 'शीलाङ्काचार्य' इति प्रसिद्धिः । २. नमः सर्वविदे ख घ ङच ।। नमो वीतरागाय ग । ३. "जयतीति स्कन्दकं छन्दः' जै०वि०प० । जै०वि०प०=जैनसिद्धान्तविषमपदपर्यायनामा ग्रन्थो ज्ञायते । ४. "तीर्थ इति मत'' जै०वि०प० । ५. बहुविधभङ्गसि० ग घ च । ६. ०थभङ्गसि० ङ। ७. "मल इति बद्धं कर्म, मलीमसेति बध्यमानम्" । जै०वि०प० ।