________________
३६६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे रूपतयैव, विचित्रत्वात् परिणतेः, पुनरर्थग्रहणं पर्यायरूपार्थार्थम्, द्रव्यार्थतया त्वेकत्वमेवेति । यदि वा नातीतमर्थं विषयभोगादिकं नाप्यनागतं दिव्याङ्गनासङ्गादिकं स्मरन्ति अभिलषन्ति । के ? तथागताः राग-द्वेषाभावात् पुनरा
वृत्तिरहिताः । तुशब्दो विशेषमाह यथा-मोहोदयादेके पूर्वमागामि वाऽभिलषन्ति, 5 सर्वज्ञास्तु नैवमिति । तन्मार्गानुयाय्यप्येवम्भूत एवेति दर्शयितुमाह-विहूयकप्पे
इत्यादि । विविधम् अनेकधा धूतम् अपनीतमष्टप्रकारं कर्म येन स विधूतः । कोऽसौ ? कल्पः आचारः, विधूतः कल्पो यस्य साधोः स विधूतकल्पः स एतदनुदर्शी भवति, अतीता-ऽनागतसुखाभिलाषी न भवतीति यावत् । एतदनुदर्शी
च किंगुणो भवति ? इत्याह10 निज्झोस इत्यादि । पूर्वोपचितकर्मणां निर्दोषयिता क्षपकः क्षपयिष्यति
वा, तृजन्तमेतद् लुडन्तं वा । कर्मक्षपणायोद्यतस्य च धर्मध्यायिनः शुक्लध्यायिनो वा महायोगीश्वरस्य निरस्तसंसारसुख-दुःखविकल्पाभासस्य यत् स्यात् तद् दर्शयति
का अरई के आणंदे इष्टाप्राप्ति-विनाशोत्थो मानसो विकारोऽरतिः, 15 अभिलषितार्थावाप्तावानन्दः । योगिचित्तस्य तु धर्म-शुक्लध्यानावेशावष्टब्ध
ध्येयान्तरावकाशस्यारत्यानन्दयोरुपादानकारणाभावादनुत्थानमेवेत्यतोऽपदिश्यतेकेय मरतिर्नाम ? को वाऽऽनन्द इति ? नास्त्येवेतरजनक्षुण्णोऽयं विकल्प इति । एवं तहरतिरसंयमे संयमे चानन्द इत्येतदन्यत्रानुमतमनेनाभिप्रायेण न विधेयमित्येतदनिच्छतोऽप्यापन्नमिति चेत्, न, अभिप्रायापरिज्ञानात्, यतो20 ऽत्रारतिरतिविकल्पाध्यवसायो निषिषित्सितः, न प्रसङ्गायाते अप्यरति-रती,
तदाह
१. "पर्यायरूपा० इति पर्यायमाश्रित्य तदेव वस्तु तदेव न, किन्तु भिन्ना-ऽभिन्नरूपा" जै०वि०प० । २. त्वेकत्वमिति ग । ३. ०न्ति वा । के ? क-खपुस्तके विना । ४. मोहभयादेके ख । ५. ०म्भूत इति दर्शयति-विहूय० ख । ६. कल्पो येन स ख । ७. एवैतदनु० क । ८. ०संसारिसुख० ग, ०संसारदुःख० च । ९. याणंदे ग । १०. च ख । ११. ० स्थानमित्यतो० ख । १२. ०मरति: ? को ख, ०मरतिनाम ? ग । १३. “[ए]तदन्यत्र इति इहैव ग्रन्थे अन्यत्र प्रक्रमे" जै०वि०प० १४. चेत् तद् न ख ।