________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । तृतीय उद्देशकः वासितचित्ताः सन्तः पूर्वं पूर्वानुभूतं विषयसुखोपभोग्यादि न स्मरन्ति न तदनुस्मृतिं कुर्वते एके राग-द्वेषविप्रमुक्ताः, तथाऽनागतदिव्याङ्गनाभोगमपि नाकाङ्क्षन्ति । किञ्चास्य जन्तोरतीतं सुख-दुःखादि किं वाऽऽगामि ? इत्येतदपि न स्मरन्ति । यदि वा कियान् कालोऽतिक्रान्तः ? कियानेष्यति ? लोकोत्तरास्तु भाषन्ते-एके राग-द्वेषरहिताः के वलिनश्चतुर्दशपूर्वविदो वा यदस्य 5 जन्तोरनादिनिधनत्वात् काल-शरीरसुखाद्यतीतमागाम्यपि तदेवेति । अपरे तु पठन्ति
अवरेण पुव्वं किह से अईअं, किह आगमिस्सं ? न सरंति एगे। भासंति एगे इह माणवा उ, जह से अईयं तह आगमिस्सं ॥ [ ]
अपरेण जन्मादिना सार्धं पूर्वम् अतिक्रान्तं जन्मादि न स्मरन्ति, कथं वा 10 केन वा प्रकारेणातीतं सुख-दुःखादि ? कथं चैष्यम् ? इत्येतदपि न स्मरन्ति, एके भाषन्ते-किमत्र ज्ञेयम् ? यथैवास्य राग-द्वेष-मोहसमुत्थैः कर्मभिर्बध्यमानस्य जन्तोस्तद्विपाकांश्चानुभवतः संसारस्य यदतिक्रान्तमागाम्यपि तत् तत्प्रकारमेवेति । यदि वा प्रमाद-विषय-कषायादिना कर्माण्युपचित्येष्टाऽनिष्टविषयाननुभवतः सर्वज्ञवाक्सुधास्वादासंविदो यथा संसारोऽतिक्रान्तस्तथा- 15 ऽऽगाम्यपि यास्यति ।
ये तु पुनः संसारार्णवतीरभाजस्ते पूर्वोत्तरवेदिन इत्येतद् दर्शयितुमाहनाईयमित्यादि । तथैव अपुनरावृत्त्या गतं गमनं येषां ते तथागताः सिद्धाः । यदि वा यथैव ज्ञेयं तथैव गतं ज्ञानं येषां ते तथागताः सर्वज्ञाः । ते तु नातीतमर्थमनागतरूपतयैव नियच्छन्ति अवधारयन्ति नाप्यनागतमतिक्रान्त- 20
१. सुखोपभोगादि क-खप्रती विना । २. किं वास्य ख ग । ३. किं चागामि ? ख, किं वागमिष्यत्येतदपि ग । ४. कियानेष्यते ? इति लोको० ख, कियानेष्यः ? इति लोको० ग । ५. ०मागामिन्यपि घ ङ, ०मागान्यपि च । ६. अतीतं घ ङ च । ७. अतीतं ख । ८. अतिक्रान्तजन्मादि ख घ । ९. वा इति ग-घ-चप्रतिषु नास्ति । १०. ० दुःखादिकं चैष्यम् ? घ ङ। ११. वे( वै )ष्यम् ? क । १२. तत्प्रकारमेवेति कआदर्शमृते । १३. ०तीरभागभाजस्ते ख ग। १४. इत्येतच्च दर्श० ग । १५. णातीय० ख । १६. तु इति घप्रतौ नास्ति । १७. "अर्थम् इति सुखादिकम्" जै०वि०प० ।