________________
5
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
वेरमित्यादि । पुरुषादिवधसमुत्थं वैरम्, तद् बालसङ्गानुषङ्गी सन्नात्मनो वर्धयति, तद्यथा—गुणसेनेन हास्यानुषङ्गाद् अग्निशर्माणं नानाविधैरुपायैरुपहसता नवभवानुषङ्गि वैरं वर्धितम् । एवमन्यत्रापि विषयसङ्गादावायोज्यम् । यतश्चैवमतः किम् ? इत्याह
३४८
20
तम्हा० इत्यादि वृत्तम् । यस्माद् बालसङ्गिनो वैरं वर्धते तस्माद् अतिविद्वान् परमं मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा एतत् परममिति ज्ञात्वा किं करोति ? इत्याह
आयंक इत्यादि । आतङ्कः नरकादिदु:खम्, तद् द्रष्टुं शीलमस्येत्यातङ्कदर्शी स पापं पापानुबन्धि कर्म न करोति, उपलक्षणार्थत्वाद् न कारयति 10 नानुमन्यते च। पुनरप्युपदेशदानायाह
अग्गं च० इत्यादि । अग्रं भवोपग्राहिकर्मचतुष्टयम्, मूलं घातिकर्मचतुष्टयम्। यदिवा मोहनीयं मूलम्, शेषाणि त्वग्रम् । यदि वा मिथ्यात्वं मूलम्, शेषं त्वग्रम् । तदेवं सर्वमग्रं मूलं च विगिंच इति त्यजाऽपनय पृथक्कुरु । तदनेनेदमुक्तं भवति—न कर्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः 15 पृथक्करणम् । कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् ? इति चेत्, तद्वशात् शेषप्रकृतिबन्धः, यत उक्तम्–
न मोहमतिवृत्य बन्ध उदितस्त्वया कर्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्
त्वयाऽतिकुटिला गतिः कुशल ! कर्मणां दर्शिता ॥ [ ]
तथा चागम:
कहं भंते ! जीवा अट्ठ कंम्मपयडीयो बंधंति गोयमा ! णाणावरणिज्जस्स
१. नानाविधैरुपहसता ग । २ ० भवानुषङ्गिकं ख । ३. वृत्तम् इति खचप्रत्योर्विनाऽन् [ऽन्यत्र नास्ति । ४. सर्वसंवरचारित्रं ख, सर्वसंवररूपचारित्रं घ । ५. आयंकेत्यादि ग घ । ६. विगिंच त्ति त्यजा० ख । ७. च च । ८. कहन्नं भंते घ ङ । ९ कम्मप्पगडीओ ख कम्मपगडीओ ग घ ङ च । १०. णाणावरणिज्जस्सोदएणं दंसणावरणस्स (०वरणं) कम्मं नियच्छइ, दंसणावरणि-ज्जस्सोदएणं दंसणमोहणिज्जं कम्मं ख ।