________________
३४६
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे तथाहीण-भिण्णसरो दीणो, विवरीओ विचित्तओ । दुब्बलो दुक्खिओ वसइ, संपत्तो चरिमं दसं ॥ [ ] इत्यादि ।
अथवा आर्य इत्यामन्त्रणम्, भगवान् गौतममामन्त्रयति-इह आर्य ! जाति 5 वृद्धि च, तत्कारणं कर्म, कार्यं च दुःखं पश्य, दृष्ट्वाऽवबुध्यस्व, यथा च जात्यादिकं न स्यात् तथा विधत्स्व । किञ्चापरम्
भूएहिमित्यादि । भूतानि चतुर्दश भूतग्रामास्तैः सममात्मनः सातं सुखं प्रत्युपेक्ष्य पर्यालोच्य जानीहि-यथा त्वं सुखप्रिय एवमन्येऽपीति, यथा वा त्वं
दुःखद्विड् एवमन्येऽपि जन्तवः । एवं मत्वाऽन्येषामसातोत्पादनं न विदध्याः, एवं 10 च जन्मादिदुःखं न प्राप्स्यसीति, उक्तं च
यथेष्टविषयाः सातमनिष्टा इतरत् तव । अन्यत्रापि विदित्वैवं, न कुर्यादप्रियं जने ॥ [ ] यद्येवं ततः किम् ? इत्याह
तम्हा इत्यादि । तस्मात् जाति-वृद्धि-सुख-दुःखदर्शनात्, अतीव विद्या 15 तत्त्वपरिच्छेत्री यस्यासावतिविद्यः, सः परमं मोक्षं ज्ञानादिकं वा तन्मार्ग ज्ञात्वा सम्यक्त्वदर्शी सन् पापं न करोति, सावद्यमनुष्ठानं न विदधातीत्युक्तं भवति ।
पापस्य च मूलं स्नेहपाशास्तदपनोदार्थमाह-उम्मुंच० इत्यादि वृत्तम् । इह मनुष्यलोके चतुर्विधकषाय-विषयविमोक्षक्षमाधारे मत्र्यैः सार्धं द्रव्य-भाव
भेदभिन्नं पाशम् उत् प्राबल्येन मुञ्च अपाकुरु । स हि कामभोगलालसस्तदा20 दानहेतोहिंसादीनि पापान्यारभते अतोऽपदिश्यते
आरंभ० इत्यादि । आरम्भेण जीवितुं शीलमस्येत्यारम्भजीवी महारम्भ
१. ०भिन्नस्सरो ख ग, भीणसरो ङ। २. ०त्तो दसमि दसं ख । ३. विधत्स्वेति । किञ्चा० ख । ४. भूएहिं इत्यादि ख । ५. जानीहि, तथा हि-यथा च । ६. वा इति खप्रती नास्ति, च ग घ ङ च । ७. जन्तव इति । एवं ख ग । ८. ०विषयात् सातमनिष्टादितरत् चूर्णौ । ९. ०दप्रियं परे चूर्णौ । १०. करोतीति ख । ११. सावद्यानुष्ठानं च । १२. च इति खङपुस्तकयो स्ति । १३. उम्मुच्च ख च । १४. वृत्तम् इति कप्रतौ न । १५. ०कषायविमोक्ष० च । १६. ०विषयमोक्ष० ग । १७. आरम्भे जीवितुं क ।