________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । द्वितीय उद्देशकः ३४५ उक्तः प्रथमोद्देशकः । साम्प्रतं द्वितीय आरभ्यते । अस्य चायमभिसम्बन्धः-पूर्वोद्देशके भावसुप्ताः प्रदर्शिताः, इह तु तेषां स्वापविपाकफलमसातमुच्यते इति । अनेन सम्बन्धेनायातस्यास्य सूत्रानुगमे सूत्रमुच्चारयितव्यम् तच्चेदम्[ सू०११२] जातिं च वुढेि च इहऽज्ज पास,
भूतेहिं जाण पडिलेह सातं । तम्हाऽतिविज्जं परमं ति णच्चा
सम्मत्तदंसी ण करेति पावं ॥४॥ [ सू०११३ ] उम्मुंच पासं इह मच्चिएहिं,
10 आरंभजीवी उभयाणुपस्सी । कामेसु गिद्धा णिचयं करेंति,
संसिच्चमाणा पुणरेंति गब्भं ॥५॥ जाइं च० इत्यादि वृत्तम् । जातिः प्रसूतिः । बाल-कुमार-यौवनवृद्धावस्थावसाना वृद्धिः । इह मनुष्यलोके संसारे वा । अद्यैव कालक्षेपमन्तरेण, जातिं च वृद्धिं च पश्य अवलोकय । इदमुक्तं भवति-जायमानस्य यद् 15 दुःखं वृद्धावस्थायां च यत् शारीर-मानसमुत्पद्यते तद् विवेकचक्षुषा पश्य, उक्तं
च
जायमाणस्स जं दुक्खं, मरमाणस्स जंतुणो । तेण दुक्खेण संतत्तो, न सरइ जाइमप्पणो ॥ विरसरसियं रसंतो तो सो जोणीमुहाउ निष्फिडइ । माऊए अप्पणो वि य वेयणमउलं जणेमाणो ॥ [
20
]
१. ०नायातस्य सूत्रा० ग । २. जाई च क । ३. ०दि सूत्रम् । जातिः च । ४. "बाल कुमारादि अवस्था १०" झअव० । ५. वृद्धावसाना ख । ६. जाइमाणस्स ग । ७. सम्मूढो जाति ण सरति अप्पणो चूर्णौ । ८. से ख । ९. निष्फिइइ क, निप्फडइ ग । १०. मायाए क च । ११. ०मतुलं ख ।।