________________
३४४ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे प्रत्युपेक्ष्य परित्यजेत् । पाठान्तरं वा कम्ममाहूय जंछणं य उपादानक्षणोऽस्य कर्मणः तद्यत्क्षणं कर्म आहूय कर्मोपादाय तत्क्षणमेव निवृत्तिं कुर्यात्, इदमुक्तं भवति–अज्ञान-प्रमादादिना यस्मिन्नेव क्षणे कर्महेतुकमनुष्ठानं कुर्यात् तस्मिन्नेव क्षणे लब्धचेतास्तदुपादानहेतोनिवृत्तिं विदध्यादिति । पुनरप्युपदेशदानायाह
पडिलेहिय इत्यादि । प्रत्युपेक्ष्य पूर्वोक्तं कर्म तद्विपक्षमुपदेशं च सर्वं समादाय गृहीत्वा अन्तहेतुत्वाद् अन्तौ राग-द्वेषौ ताभ्यां सहाऽदृश्यमानः ताभ्यामनपदिश्यमानो वा तत् कर्म तदुपादानं वा रागादिकं ज्ञपरिज्ञया परिज्ञाय प्रत्याख्यानपरिज्ञया परिहरेदिति । रागादिमोहितं लोकं विषयकषायलोकं वा
ज्ञात्वा, वान्त्वा च लोकसंज्ञां विषयपिपासासंज्ञितां धनाद्याग्रहग्रहरूपां वा स 10 मेधावी मर्यादाव्यवस्थितः सन् पराक्रमेत संयमानुष्ठाने उद्युक्तो भवेत् विषय
पिपासामरिषड्वर्गं वाऽष्टप्रकारं वा कर्मावष्टभ्यात् । इतिः परिसमाप्तौ । ब्रवीमि इति पूर्ववत् ॥
इति शीतोष्णीयाध्ययनप्रथमोद्देशकटीका समाप्ता ॥ छ ॥
१. तत् क्षणं च । २. क्षणमाहूय कर्मो० ख । ३. "अन्तहेतुत्वाद् इ[ति] सुगतिविनाशकत्वात्'' जै०वि०प० । ४. ०या च परि० ग । ५. विषयकषायादिकं वा ज्ञात्वा ख, विषयलोकं क । ६. धनायाग्रहग्रहरूपां क ग घ , धनायाग्रहरूपां ङ च । ७. स इति चपुस्तके नास्ति । ८. संयमानुष्ठानोद्युक्तो ख । ९. इति घ च । १०. खप्रतौ इति इति न वर्तते। ११. ०ध्ययनस्य प्रथमोद्देशकटीका परिसमाप्तेति ॥छ।। ख । १२. ०प्ता ।छ।। श्रीः ॥ ङ।