________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३४३ तिर्यग्गति-तदानु-पूर्वीद्वय-एक-द्वि-त्रि-चतुरिन्द्रियजाति-आतप-उद्द्योतस्थावर-सूक्ष्म-साधारण-रूपैर्नरकतिर्यग्गतिप्रायोग्यैस्त्रयोदशभिः क्षपितैरशीतिर्भवति । द्विनवतेस्त्वेभिस्त्रयोदशभिः क्षपितैरेकोनाशीतिः । याऽसावाहारकचतुष्टयाप-गमेनैकोननवतिः सञ्जाता ततस्त्रयोदशनाम्नि क्षपिते षट्सप्ततिर्भवति । तीर्थकर-नामाभावापादितादृष्टाशीतिः, त्रयोदशनामाभावे पञ्चसप्ततिः । साऽपि 5 तीर्थकरकेवलिशैलेश्यापन्नद्विचरमसमये तीर्थकरनाम्नः प्रक्षेपाद् वेद्यमाननवकर्मप्रकृतिव्युदासेन क्षयमुपगच्छतीत्यतोऽन्त्यसमये नवसत्कर्मतास्थानम् । ताश्च वेद्यमाना नवेमाः, तद्यथा-मनुजगति-पञ्चेन्द्रियजाति-त्रस-बादर-पर्याप्तकसुभगा-ऽऽदेय-यश:कीर्ति-तीर्थकररूपाः एता एव शैलेश्यन्तसमये सत्तां बिभ्रति, शेषास्त्वेकसप्ततिः सप्तषष्टियं द्विचरमसमये क्षयमुपयान्ति, एता एव 10 नव अतीर्थकरकेवलिनस्तीर्थकरनामरहिता अष्टौ भवन्ति, अतोऽन्त्यसमयेऽष्टसत्कर्मतास्थानमिति ।
सामान्येन गोत्रस्य द्वे सत्कर्मतास्थाने, तद्यथा-उच्च-नीचगोत्रसद्भावे सत्येकं सत्कर्मतास्थानम्, तेजो-वायूच्चैर्गोत्रोद्वलने कालङ्कलीभावावस्थायां नीचैर्गोत्रसत्कर्मतेति द्वितीयम्, यदिवाऽयोगिद्विचरमसमये नीचैर्गोत्रक्षये 15 सत्युच्चैर्गोत्रसत्कर्मता, एवं द्विरूपगोत्रावस्थाने सत्येकं सत्कर्मतास्थानम् अन्यतरगोत्रसद्भावे सति द्वितीयमिति ।
एवं कर्म प्रत्युपेक्ष्य तत्सत्तापगमे यतिना यतितव्यमिति । किञ्च
कम्म इत्यादि । कर्मणो मूलं कारणं मिथ्यात्वा-ऽविरति-प्रमाद-कषाययोगाः, चः समुच्चये, कर्ममूलं च प्रत्युपेक्ष्य यत् क्षणम् इति क्षणु हिंसायाम् 20 [पा०धा० १४६६] क्षणनं हिंसनं यत् किमपि प्राण्युपघातकारि तत् कर्ममूलतया
१. ०भिः कर्मभिः क्षपितै० क-खआदशौँ विना । २. ०ऽष्टाशीतै( ते )स्त्रयोदश० घ । ३. तिः, तत्राशीतेः षट्सप्ततेर्वा तीर्थकर० क-खपुस्तके ऋते । ४. क्षयमुपगते शेषनाम्नि अन्त्यसमये क-खप्रतिभ्यामृते । ५. प्रबिभ्रति ख । ६. ०मुपयाति घ च । ७. ०न्ति, एवं नव क । ८. ०गोत्रद्वयसद्भावे ख च । ९. ०सत्कर्मतेति, एवं ख ग, सत्कर्मता, द्विरूप० च । १०. क-घ-ङप्रतिष सति इति न वर्तते । ११. ०क्ष्य सत्तापगमे क, ०क्ष्य तत्सत्तापगमाय यतिना ग । १२. “च पूरणे" चूणौँ ।