SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ 5 शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे द्वितीयवेदक्षये सत्येकादश १०, हास्यादिषट्कक्षये पञ्च ११, स्ववेदाभावे चत्वारि १२, सञ्ज्वलनक्रोधक्षये त्रयः १३, सञ्चलनमानक्षये द्वौ १४, सञ्चलनमायाक्षये सत्येको लोभः १५, तत्क्षये च मोहनीयासत्तेति । ३४२ आयुषो द्वे सत्कर्मतास्थाने सामान्येन, तद्यथा – परभवायुष्कबन्धोत्तरकालमायुष्कद्वैयमेकम्, द्वितीयं तु तद्बन्धाभाव इति । नाम्नो द्वादश सत्कर्मतास्थानानि, तद्यथा - त्रिनवतिः ९३, द्विनवति: ९२, एकोननवतिः ८९, अष्टाशीतिः ८८, षडशीतिः ८६, अशीतिः ८०, एकोनाशीतिः ७९, अष्टसप्ततिः ७८, षट्सप्ततिः ७६, पञ्चसप्ततिः ७५, नव ९, अष्टौ चेति ८। तत्र त्रिनवतिः–गतयश्चतस्रः ४, पञ्च जातयः ५, पञ्चशरीराणि ५, पञ्च 10 सङ्घाताः ५, बन्धनानि पञ्च ५, संस्थानानि षट् ६, अङ्गोपाङ्गत्रयम् ३, संहननानि षट् ६, वर्णपञ्चकम् ५, गन्धद्वयम् २, रसाः पञ्च ५, अष्टौ स्पर्शाः ८, आनुपूर्वीचतुष्टयम् ४, अगुरुलघु-उपघात - पराघात - उच्छ्वासा - ऽऽतप-उद्द्योता: षट् ६, प्रशस्तेतर–विहायोगतिद्वयम् २, प्रत्येकशरीर - त्रस - शुभ-सुभग- सुस्वरसूक्ष्म-पर्याप्तक- स्थिरा - ऽऽदेय - यशांसि सेतराणीति विंशतिः २०, निर्माणम्, 15 तीर्थकरत्वमिति, एवं सर्वसमुदाये त्रिनवतिर्भवति ९३ | तीर्थकरनामाभावे द्विनवतिः ९२ । त्रिनवतेराहारकशरीर-सङ्घात-बन्धना-ऽङ्गोपाङ्गचतुष्टयाभावे सत्येकोननवतिः ८९ । ततोऽपि तीर्थकरनामाभावेऽष्टाशीतिः ८८ । देवगतितदानुपूर्वीद्वयोद्बलने षडशीतिः ८६, यदि वा अशीतिसत्कर्मणो नरकगतिप्रायोग्यं बध्नतस्तद्गत्या-ऽऽनुपूर्वीद्वय-वैक्रियचतुष्कबन्धकस्य षडशीतिः, देवगति20 प्रायोग्यबन्धकस्य वेति । ततो नरकगत्यानुपूर्वीद्वय-वैक्रियचतुष्टयोद्बलनेऽशीतिः ८० । पुनर्मनुष्य - गत्या -ऽऽनुपूर्वीद्वयोद्बलनेऽष्टसप्ततिः ७८ । एतान्यक्षपकाणां सत्कर्मतास्थानानि । क्षपक श्रेण्यन्तर्गतानां तु 'प्रोच्यन्ते, तद्यथा—त्रिनवतेर्नरक १. पुंवेदाभावे ख च वेदाभावे ग । २. ०ने, तद्यथा घ ङ । ३. ०द्वये एकम् ङ । ४. पञ्च शरीराणि ५ पञ्च जातयः पञ्च सङ्घाताः । ५. ०णि ५ सङ्घाताः पञ्च ५ च । ६. ०समुदये ख च । ७. द्विनवतिर्भवति ९२ ग । ८. ० पूर्वी वैक्रिय घ । ९. सत्कर्मस्थानानि ख । १०. प्रोच्यते ग । ११. ०र्नारक० च ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy