________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३४१ विधसत्कर्मा । ततः शेषघातित्रये क्षीणे चतुर्विधभवोपग्राहिसत्कर्मा जघन्यतोऽन्तर्मुहूर्तम्, उत्कृष्टतो देशोनां पूर्वकोटिं यावत् । पुनरूज़ पञ्चहूस्वाक्षरोगिरणकालीयां शैलेश्यवस्थामनुभूयाकर्मा भवति ।
साम्प्रतमुत्तरप्रकृतीनां सदसत्कर्मताविधानमुच्यते-तत्र ज्ञानावरणीयाऽन्तराययोः प्रत्येकमुपात्तपञ्चभेदयोश्चतुर्दशस्वपि जीवस्थानकेषु गुणस्थानकेषु च 5 मिथ्यादृष्टेरारभ्य केवलिगुणस्थानादारतोऽपरविकल्पाभावात् पञ्चविधसत्कर्मता।
दर्शनावरणस्य त्रीणि सत्कर्मतास्थानानि, तद्यथा-नवविधं निद्रापञ्चकदर्शनचतुष्टयसमन्वयात्, एतत् सर्वजीवस्थानानुयायि, गुणस्थानेष्वप्यनिवृत्तिबादरकालसङ्ख्येयभागान् यावत् १, ततः कतिचित्सङ्ख्येयभागावसाने स्त्यानद्धित्रयक्षयात् षट्सत्कर्मतास्थानम् २, ततः क्षीणकषायद्विचरमसमये निद्रा- 10 प्रचलाद्वयक्षयात् चतुःसत्कर्मतास्थानम्, तस्यापि क्षयः क्षीणकषायकालान्त इति
वेदनीयस्य द्वे सत्कर्मतास्थाने, तद्यथा-द्वे अपि साता-ऽसाते इत्येकम्, अन्यतरोदयारूढशैलेश्यवस्थेतरद्विचरमक्षणक्षये सति सातमसातं वा कर्मेति द्वितीयम् ।
15 मोहनीयस्य पञ्चदश सत्कर्मतास्थानानि, तद्यथा-षोडशकषायनवनोकषाय-दर्शनत्रये सति अष्टाविंशतिः १, सम्यक्त्वोद्वलने सप्तविंशतिः २, दर्शनद्वयोद्वलने सम्यग्मिथ्यादृष्टेरनादिमिथ्यादृष्टेर्वा षड्विंशतिः ३, सम्यग्दृष्टेरष्टाविंशतिसत्कर्मणोऽनन्तानुबन्ध्युद्वलने क्षपणे वा चतुर्विंशतिः ४, मिथ्यात्वक्षये त्रयोविंशतिः ५, सम्यग्मिथ्यात्वक्षये द्वाविंशतिः ६, क्षायिकसम्यग्दृष्टेरेकविंशति: 20 ७, अप्रत्याख्यान-प्रत्याख्यानावरणक्षये त्रयोदश ८, अन्यतरवेदक्षये द्वादश ९,
१. क्षीणे भवोपग्राहि० ख । २. ०रूज़ हुस्वपञ्चाक्षरो० क घ ङ, ०रूद्धं पञ्च० ख च, ०रूर्द्ध ह्स्वपञ्चाक्षरो० ग । ३. जीवस्थानेषु गुणस्थानेषु च ख च । ४. तु ग । ५. ०मसातं स( वा सत्? )कर्मेति क । ६-७. ०कषाया घ- ङपुस्तके विना । ८. सति सम्यग्दृष्टरष्टाविंशतिः कआदर्शमते । ९. ०ने सम्यग्मिथ्यादृष्टः सप्तविंशतिः ग च । १०. नेऽनादिमिथ्या० क ग घ च ।