SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३४० शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे न विद्यते नासौ नारक - तिर्यङ् - नरा - ऽमर - पर्याप्तका -ऽपर्याप्तक- बालकुमारादिसंसारिव्यपदेशभाग् भवति । यश्च सकर्मा स नारकादिव्यपदेशेन व्यपदिश्यत इत्याह कम्मुणा इत्यादि । उपाधीयते व्यपदिश्यते येनेति उपाधिः विशेषणं स 5 उपाधिः कर्मणा ज्ञानावरणीयादिना जायते, तद्यथा-मति - श्रुता - ऽवधि-मनःपर्यायवान् मन्दुमतिस्तीक्ष्णो वेत्यादि, चक्षुर्दर्शनी अचक्षुर्दर्शनी निद्रालुरित्यादि, सुख दु:खी वेति, मिथ्यादृष्टिः सम्यग्दृष्टिः सम्यग्मिथ्यादृष्टिः स्त्री पुमान् नपुंसकः कषायीत्यादि, सोपक्रमायुष्को निरुपक्रमायुष्कोऽल्पायुरित्यादि, नारकस्तिर्यग्योनिरेकेन्द्रियो द्वीन्द्रियः पर्याप्तकोऽपर्याप्तकः सुभगो दुर्भग इत्यादि, 10 उच्चैर्गोत्रो नीचैर्गोत्रो वेति, कृपणस्त्यागी निरुपभोगो निर्वीर्य इत्येवं कर्मणा संसारी व्यपदिश्यते । यदि नामैवं ततः किं कर्तव्यम् ? इत्याह - [सू०१११ ] कम्मं च पडिलेहाए कम्ममूलं च जं छणं, पडिलेहिय सव्वं समायाय दोहिं अंतेहिं अदिस्समाणे तं परिणाय मेधावी विदित्ता लोगं वंता लोगसण्णं से मतिमं 15 परक्कमेज्जासि त्ति बेमि । ॥ सीओसणिज्जस्स पढमो उद्देसओ सम्मत्तो ॥ कम्मं च इत्यादि । कर्म ज्ञानावरणीयादि तत् प्रत्युपेक्ष्य, बन्धं वा प्रकृतिस्थित्यनुभाव-प्रदेशात्मकं पर्यालोच्य तत्सत्ता - विपाकापन्नाश्च प्राणिनो यथा भावनिद्रया शेरते तथाऽवगम्य, अकर्मतोपाये भावजागरणे यतितव्यमिति । 20 तदभावश्चानेन प्रक्रमेण भवति, तद्यथा - अष्टविधसत्कर्माऽपूर्वादिकरणक्षपकश्रेणिप्रक्रमेण मोहनीयक्षयं विधायान्तर्मुहूर्तमजघन्योत्कृष्टं कालं सप्त १. ० संसारव्यप० ख ग । २. ज्ञानावरणादिना ख । ३. नास्ति कप्रतौ वेति इति । ४. ०स्तिर्यग्योन एकेन्द्रियो ख च ० स्तिर्यग्योनिक एकेन्द्रियो घ ङ । ५. उच्चैर्नीचैर्गोत्रो क । ६. व्यपदिश्यत इति । यदि ख । ७. ०क्ष्य, कर्मबन्धं वा ख । ८. ० विपाकापन्नांश्च गचप्रती विना ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy