________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३३९ [ सू०११०] अकम्मस्स ववहारो ण विज्जति । कम्मुणा उवाधि जायति ।
अपमत्त इत्यादि । कामैर्यः प्रमादः तस्मादप्रमत्तो भवेत् । कश्चाप्रमत्तः स्यात् ? यः कामारम्भकेभ्यः पापेभ्य उपरतो भवतीति दर्शयति-उवरओ इत्यादि । उपरत: मनो-वाक्-कायैः, कुतः ? पापोपादानकर्मभ्यः । कोऽसौ ? 5 वीरः । किम्भूतः ? गुप्तात्मा । कश्च गुप्तो भवति ? यः खेदज्ञः । यश्च खेदज्ञः स कं गुणमवाप्नुयात् ? इत्याह
जे पज्जव इत्यादि । शब्दादीनां विषयाणां पर्यवाः विशेषाः तेषु तन्निमित्त जातं शस्त्रं पर्यवजातशस्त्रं शब्दादिविशेषोपादानाय यत् प्राण्युपघातकार्यनुष्ठानं तत् पर्यवजातशस्त्रं तस्य यः पर्यवजातशस्त्रस्य खेदज्ञः निपुणः सः अशस्त्रस्य निरवद्यानुष्ठानरूपस्य संयमस्य खेदज्ञः, यश्च अशस्त्रस्य संयमस्य खेदज्ञः स पर्यवजातशस्त्रस्य खेदज्ञः, इदमुक्तं भवति–यः शब्दादिपर्यायान् इष्टाऽनिष्टात्मकान् तत्प्राप्ति-परिहारानुष्ठानं च शस्त्रभूतं वेत्ति सोऽनुपघातकत्वात् संयममप्यशस्त्रभूतमात्म-परोपकारिणं वेत्ति, शस्त्रा-ऽशस्त्रे च जानानस्तत्प्राप्तिपरिहारौ (स्तत्परिहार-प्राप्ती ?) विधत्ते, एतत्फलत्वाद ज्ञानस्येति । यदि वा 15 शब्दादिपर्यायेभ्यस्तज्जनितराग-द्वेषपर्यायेभ्यो वा जातं यद् ज्ञानावरणीयादि कर्म तस्य यत् शस्त्रं दाहकत्वात् तपस्तस्य यः खेदज्ञस्तज्ज्ञानानुष्ठानत: स: अशस्त्रस्य संयमस्यापि खेदज्ञः, पूर्वोक्तादेव हेतोः । हेतुहेतुमद्भावाच्च योऽशस्त्रस्य खेदज्ञः स पर्यवजातशस्त्रस्यापि खेदज्ञ इति । तस्य च संयम-तप:खेदज्ञस्याश्रवनिरोधाद-- नादिभवोपात्तकर्मक्षयः । कर्मक्षयाच्च यद् भवति तदप्यतिदिशति
अकम्मस्स इत्यादि । न विद्यते कर्माष्टप्रकारमस्येत्यकर्मा तस्य व्यवहारो
20
१. अप्पमत्त क-चपुस्तके विना । २. तत्राप्रमत्तो कआदर्शादृते । ३. धीर: च । ४. ०शस्त्रम्, तस्य यः खेदज्ञः क ग च, ०शस्त्रम्, यः पर्यव० तस्य यः खेदजः क ग च. ०शस्त्रम. यः पर्यव० ख। ५. ०स्य खेदज्ञः ख घ। ६.०स्य खेदज्ञःख । ७. ०शस्त्रखेदज्ञः च । ८. ०ऽशस्त्रे विजानान० ख । १. ०स्तस्य शस्त्रस्य खेदज्ञ० ख। १०. योऽशस्त्रस्यापि खेदज्ञः । घ । ११. ०स्यास्त्रव० ख ग । १२. ०भवोपात्तकर्मक्षयाच्च यद् ग । १३. तदपदिशति ख च । १४. ०तेऽस्याप्रकारं कर्मेत्यकर्मा ख च ।