SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे अभेदोपचारात् प्राणिनः दृष्ट्वा ज्ञात्वाऽप्रमत्तः परिव्रजेत् उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च 5 ३३८ मन्ता इत्यादि । हे मतिमन् ! सश्रुतिक ! भावसुप्ता - ऽऽतुरान् पश्य, मत्त्रा चैतज्जाग्रत्-सुप्तगुण-दोषापादनं मा स्वापमतिं कुरु । किञ्च आरंभजमित्यादि । आरम्भः सावद्यक्रियानुष्ठानं तस्माज्जातमारम्भजम् । किं तत् ? दुःखं तत्कारणं वा कर्म । इदम् इति प्रत्यक्षगोचरापन्नमशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमिति एतत् ज्ञात्वा परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषय - कषायाच्छादितचेता भावशायी स किमाप्नुयात् ? इत्याहमाई इत्यादि । मध्यग्रहणाच्चाद्यन्तयोर्ग्रहणम्, तेन क्रोधादिकषायवान् 10 मद्यादिप्रमादवान् नरकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवति ? इत्याह उवेह इत्यादि । बहुवचननिर्देशादाद्यर्थो गम्यते, शब्द-रूपादिषु यौ रागद्वेषौ तौ उपेक्षमाणः अकुर्वन् ऋजुर्भवति यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतस्त्र्यादिपदार्थान्यथाग्रहाद् वक्रः । किञ्च स ऋजुः 15 शब्दादीनुपेक्षमाणो मरणं मारः तदभिशङ्की मरणादुद्विजंस्तत् करोति येन मरणात् प्रमुच्यते । किं तत् करोति ? इत्याह [सू०१०९ ] अप्पमत्तो कामेहिं, उवरतो पावकम्मेहिं, वीरे आतगुत्ते खेयणे । जे पज्जवजातसत्थस्स खेतण्णे से असत्थस्स खेतणे । जे असत्थस्स खेतपणे से पूज्जव20 जातसत्थस्स खेतण्णे । १. मंता कप्रति विना । २. सावद्यानुष्ठानं ख । ३. ०कषायच्छादित० ख । ४. इत्याह चग । ५ माईत्यादि । मध्यग्रहणादाद्यन्त० ख च । ६. नारकं दुःख० ख, नरकं दुःख० च । ७. पुनस्तिर्यक्( ग्? ) गर्भ० ख । ८. ०ति यतिरेव क ग च । ९. ०पदार्थग्रहणाद् ख, ० पदार्थान्यथाग्रहणाद् ग घ ङ च । १०. ०स्तत् तत् करोति ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy