________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३३७ पासिय आतुरे पाणे अप्पमत्तो परिव्वए । मंता एयं मतिमं पास, आरंभजं दुक्खमिणं ति णच्चा, मायी पमायी पुणरेति गब्भं ।
उवेहमाणो सद्द-रूवेसु अंजू माराभिसंकी मरणा 5 पमुच्चति ।
जरा इत्यादि । जरा च मृत्युश्च [जरा मृत्यू] ताभ्यामात्मवशमुपनीतः नरः प्राणी सततम् अनवरतं मूढः महामोहमोहितमतिः धर्मं स्वर्गा-ऽपवर्गमार्ग नाभिजानीते नावगच्छति, तत् संसारे स्थानमेव नास्ति यत्र जरा-मृत्यू न स्तः । देवानां जराऽभाव इति चेत्, तन्न, तत्राप्युपान्तकाले लेश्या-बल-सुख-प्रभुत्व- 10 वर्णहान्युपपत्तेरस्त्येव तेषामपि जरासद्भावः, उक्तं च
देवा णं भंते ! सब्वे समवण्णा ? नो इणढे समटे । से केणटेणं भंते ! एवं वुच्चइ ? गोयमा ! देवा दुविहा-पुव्वोववण्णगा पच्छोववण्णगा य । तत्थ णं जे ते पुव्वोववण्णगा ते णं अविसुद्धवण्णयरा, जे णं पच्छोववण्णगा ते णं विसुद्धवण्णयरा । [ ]
एवं लेश्याद्यपीति । च्यवनकाले तु सर्वस्यैवैतद् भवतीति, तद्यथामाल्यम्लानिः कल्पवृक्षप्रकम्पः, श्री-हीनाशो वाससां चोपरागः । दैन्यं तन्द्रा काम-रागा-ऽङ्गभङ्गो, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥ [ ] यतश्चैवमतः सर्वं जरा-मृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यात् ? इत्याह
पासिय इत्यादि । स हि भावजागरस्तैस्तैर्भावस्वापजनितैः शारीर- 20 मानसैर्दु:खैः आतुरान् किङ्कर्तव्यतामूढान् दुःखसागरावगाढान् प्राणान्
१. महामोहेन मोहित० ग, महामोहित० च । २. ०मेव च नास्ति ग। ३. समावण्णा ख । ४. गोअमा च । ५. पुव्वोपवण्णगा ख। ६. ०गा य पच्छो० घ, ०गा या पच्चोववण्णगा ङ। ७. या ङ। ८. पच्चोववण्णगा ङ। ९. ते विसुद्ध० घ ङ। १०. तु इति चप्रतौ नास्ति । ११. तन्द्री( न्द्रिः ) ग घ । १२. दृष्टिभ्रंशो वेपथु० ख, दृष्टिभ्रामो वेपथु० ग च । १३. किङ्कर्तव्यता-दुःख० ख।
15