________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे श्रोतसी तयोः, राग-द्वेषाभ्यां सम्बन्धः सङ्गस्तम् अभिजानाति आभिमुख्येन परिच्छिनत्ति यथा-अयं सङ्ग आवर्त-श्रोतसोः कारणम् । जानानश्च परमार्थतः कोऽभिधीयते ? योऽनर्थं ज्ञात्वा परिहरति । ततश्चायमर्थः-संसार श्रोतःसङ्गं राग
द्वेषात्मकं ज्ञात्वा यः परिहरति स एवावर्त-श्रोतसोः सङ्गस्याभिज्ञाता । सुप्त5 जाग्रतां दोष-गुणपरिच्छेदी कं गुणमवाप्नुयात् ? इत्याह
सीउसिणमित्यादि । सबाह्या-ऽऽभ्यन्तरग्रन्थरहितः सन् शीतोष्णत्यागी सुख-दुःखानभिलाषुकः शीतोष्णरूपौ वा परीषहावतिसहमानः संयमाऽसंयमारति-रतिसहः सन् परुषतां कर्कशतां पीडाकारितां परीषहाणामुपसर्गाणां
वा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तां पीडाकारित्वेन 10 गृह्णातीत्युक्तं भवति । यदिवा संयमस्य तपसो वा परुषतां शरीरपीडोत्पादनात्
कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुनिराबाधसुखोन्मुखः न वेत्ति, न संयमतपसी पीडाकारित्वेन गृह्णातीति यावत् । किञ्च
जागर इत्यादि । असंयमनिद्रापगमाद् जागर्तीति जागरः, अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरम, तस्मादेपरतो वैरोपरतः, जागरश्चासौ 15 वैरोपरतश्चेति विगृह्य कर्मधारयः । क एवम्भूतः ? वीर: कर्मापनयनशक्त्युपेतः ।
एवम्भूतश्च त्वं वीर ! आत्मानं परं वा दुःखाद् दुःखकारणाद्वा कर्मणः प्रेमोक्ष्यसीति । यश्च यथोक्ताद्विपरीत आवर्त-स्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयात् ? इत्याह
[सू०१०८ ] जरा-मच्चुवसोवणीते णरे सततं मूढे धम्म 20 णाभिजाणति ।
१. स्रोतसी ग घ ङ । २. स्रोतसोः ग घ । ३. ०स्रोतः० घ ङ। ४. स्रोतसो: ग घ । ५. ०परिच्छेदे घ ङ । ६. सीओसिण इ० ख घ च । ७. ०ऽसंयमरत्यरतिसह: खचप्रतिभ्यामृते । ८. न तान् पीडा० ख-चपुस्तके विना । ९. कर्ममलापनयनाद्वा ख । १०. सुखोत्सुको न संयम० ख, सुखो न वेत्ति ग । ११. ०वेशपरापकारा० ख च । १२. ०दुपरतः, जागर० घ ङ । १३. धीर: च । १४. धीर ! च । १५. प्रमोक्ष[ य ]सीति क । १६. ०श्रोतसोः ख ङ च ।