________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३३५ रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात् कुतो - ऽस्यात्मेति । पाठान्तरं वा-से आयवी नाणवी, आत्मानं श्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित्, तथा ज्ञानं यथावस्थितपदार्थपरिच्छेदकं वेत्तीति ज्ञानवित् । तथा वेद्यते जीवादिस्वरूपमनेनेति वेदः आचाराद्यागमः, तं वेत्तीति वेदवित् । तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गा - ऽपवर्गमार्गं धर्मं वेत्तीति धर्मवित् । एवं ब्रह्म अशेषमलकलङ्कविकलयोगिशर्म वेत्तीति ब्रह्मवित्, यदिवाऽष्टादशधा ब्रह्मेति । एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि मत्यादीनि तै: लोकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति परिच्छिनत्तीत्युक्तं भवति । य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपपरिच्छेदीति ! यश्चानन्तरगुणोपेतः स किं वाच्यः ? इत्यत आह—
मुणी इत्यादि । यो ह्यात्मवान् ज्ञानवान् वेदवान् धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तैर्वा लोकं जानाति स मुनिर्वाच्यः, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरिति कृत्वा । किञ्च
आवट्ट इत्यादि । भावावर्तः जन्म-जरा-मरण-रोग-शोक-व्यसनोपनिपातात्मकैः संसार इति, उक्तं हि—
धम्म इत्यादि । धर्मं चेतना - ऽचेतनद्रव्यस्वभावं श्रुत- चारित्ररूपं वा वेत्तीति धर्मवित् । ऋजुः इति ऋजो: ज्ञान-दर्शन - चारित्राख्यस्य मोक्षमार्गस्या- 15 नुष्ठानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इति यावत् । तदेवं धर्मविदृजुर्मुनिः किम्भूतो भवति ? इत्याह
राग-द्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् ।
जन्मावर्ते जंगत् क्षिप्तं प्रमादाद् भ्राम्यते भृशम् ॥ [ ] भावश्रोतोऽपि शब्दादिकामगुणविषयाभिलाषः, आवर्तश्च श्रोतश्चाऽऽवर्त
5
10
१. यायवी ग । २. तथा इति खपुस्तके न वर्तते । ३. वेत्ति वेद० ख । ४. ० विकलं योगि० ग । ५. “ब्रह्मविद् मलरहितः " झअव० । ६. तैर्यथा० ख । ७. इत्याह मुणीत्यादि ख। ८. वेद- धर्मवान् क । ९ ०ऽचेतनाद्रव्य० ख । १०. ज्ञान - चारित्रा० ख घ । ११. ०कः स संसार ख । १२. जगत् सर्वं प्र० चूर्णौ । १३. ०द्भ्रम्यते ग । १४. भावस्त्रोतोऽपि ग घ ङ ।
20