________________
5
10
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
सिणच्चागी से णिग्गंथे अरति- रतिसहे फारुसियं णो वेदेति जागर - वेरोवरते वीरे ! एवं दुक्खा पमोक्खसि ।
-
जैस्सिमे इत्यादि । यस्य मुने: इमे प्रत्यात्मवेद्याः समस्तप्राणिगणेन्द्रियप्रवृत्तिविषयभूताः शब्द-रूप- गन्ध-रस-स्पर्शा मनोज्ञेतरभेदभिन्नाः अभिसमन्वागताः इति अभिः आभिमुख्येन सम्यक् इष्टा ऽनिष्टावधारणतया अवि शब्दादिस्वरूपावगमात् पश्चात्, आगताः ज्ञाताः परिच्छिन्ना यस्य मुनेर्भवन्ति स लोकं जानातीति सम्बन्धः । इदमुक्तं भवति - इष्टेषु न रागमुपयाति, नापीतरेषु द्वेषम् । एतदेवाभिसमन्वागमनं तेषाम्, नान्यदिति । यदि वेहैव शब्दादयो दुःखाय भवन्ति, आस्तां तावत् परलोक इति, उक्तं च
३३४
रक्तः शब्दे हरिणः, स्पर्शे नागो, रसे च वारिचरः । कृपणपतङ्गो रूपे, भुजगो गन्धे ननु विनष्टः ॥ पञ्चसु रक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु रक्तः प्रयाति भस्मान्ततामबुधः ॥ [
]
अथवा शब्दे पुष्पशालाद् भद्रा ननाश, रूपे अर्जुनकतस्करः, गन्धे 15 गन्धप्रियकुमारः, रसे सौदासः, स्पर्शे सत्यकिः, सुकुमारिकापतिर्वा ललिताङ्गकः । परत्र च नरकादियातनास्थानभयमिति । एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयात् ? इत्याह
से आयवं इत्यादि । यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो 'लोकसमयदर्शी शस्त्रो परतः सन् शब्दादीन् कामगुणान् दुःखैकहेतून20 भिसमन्वागच्छति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया च प्रत्याचष्टे स मुमुक्षुः आत्मवान् आत्मा ज्ञानादिकोऽस्यास्तीत्यात्मवान्, शब्दादिपरित्यागेन ह्यात्माऽनेन
44
१. यस्सिमे क । २. ०रूप-रस- गन्ध-स्पर्शा ग । ३. ०र्भवन्तीति स ख । ४. " परलोक इति समन्वागता भवन्तीति योग: " जै०वि०प० । ५. 'पुष्पशालाद् इति गायनात्" जै०वि०प० । ६. अर्जुनतस्करः ख, अर्जुनकस्तस्कर: ग । ७. सोदासः क च । ८. ०स्थानं भय० ख ९. गुणमाप्नुयात् ख । १०. आयतमित्यादि क, आयवं इत्यादि ख च यायवमित्यादि ग । ११. लोके समयोपदशी ( र्शी) ग । १२. सन् इति गतौ न । १३. नास्ति च इति खपुस्तके |