________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः भवव्यसनोपनिपाताय, इह वा बन्ध-वध-शरीर-मन:पीडायै जायत इत्येतज्जानीहि । परिज्ञानाच्चैतत् फलम्, यदुत द्रव्य-भावस्वापादज्ञानरूपाद् दुःखहेतोरपसर्पणमिति । किञ्चान्यत्
समयमित्यादि । समयः आचारोऽनुष्ठानं तं लोकस्य असुमवातस्य ज्ञात्वा अत्र शस्त्रोपरतो भवेदित्युत्तरसूत्रेण सम्बन्धः । 'लोको हि भोगाभि- 5 लाषितया प्राण्युपमर्दादिकषायहेतुकं कर्मोपादाय नरकादियातनास्थानेषूत्पद्यते । ततः कथञ्चिदुद्वृत्त्यावाप्य चाशेषक्लेशवातघ्नं धर्मकारणमार्यक्षेत्रादौ मनुष्यजन्म पुनरपि महामोहमोहितमतिस्तत्तदारभते येन येनाधोऽधो व्रजति, संसारानोन्मज्जतीति । अयं लोकाचारस्तं ज्ञात्वा । अथवा समभावः समता तां ज्ञात्वा । लोकस्य इति सप्तम्यर्थे षष्ठी, ततश्चायमर्थः-लोके जन्तुसमूहे समतां समशत्रु- 10 मित्रतां समात्म-परतां वा ज्ञात्वा । यदि वा सर्वेऽप्येकेन्द्रियादयो जन्तवः सदा स्वोत्पत्तिस्थानरिरंसवो मरणभीरवः सुखेप्सवो दुःखद्विष इत्येवम्भूतां समतां ज्ञात्वा । किं कुर्यात् ? इत्याह
एत्थ सत्थोवरए । अत्र अस्मिन् षट्कायलोके शस्त्रात् द्रव्य-भावभेदादुपरतो धर्मजागरणेन जागृहि । यदि वा यद्यत् संयमशस्त्रं प्राणातिपाता द्या- 15 श्रवद्वारं शब्दादिपञ्चप्रकारकामगुणाभिष्वङ्गो वा तस्माद्य उपरतः स मुनिरिति । आह च
__ [सू०१०७] जस्सिमे सद्दा य रूवा य गंधा य रसा य फासा य अभिसमण्णागता भवंति से आतवं नाणवं वेयवं धम्मवं बंभवं पण्णाणेहिं परिजाणति लोगं, मुणीति वच्चे 20 धम्मविदु त्ति अंजू आवट्टसोए संगमभिजाणति । सीतो
१. ०वध-शारीरपीडायै ख, ०वध-शारीर-मानसपीडायै च । २. तत्र ख । ३. भवेदुत्तर० क-चप्रती विना। ४. ०हेतु कर्मो० ख । ५. ० दुद्वावाप्य क घ ङ । ६. महामोहितस्तत्तदा० ख । ७. ०ति । एवं लोका० च । ८. इत्येवम्भूता समता तां ज्ञात्वा घ ङ। ९. सत्थोवरये च। १०. ०द्यास्त्रव० घ । ११. च इति गप्रतौ नास्ति ।