________________
३३२ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे
एसेव य ईत्यादि गाथा । एष एव पूर्वोक्त उपदेशो यो विवेकाऽविवेकजनितः, तथाहि-सचेतनो विवेकी प्रदीप्ते सति प्रपलायमानः सुखमनुभवति, पथि विषये च सापाय-निरपायविवेकज्ञः, आदिग्रहणाद्
अन्यस्मिन् वा दस्युभयादौ समुपस्थिते सति यथा विवेकी सुखेनैव तमपायं 5 परिहरन् सुखभाग् भवति, एवं श्रमणोऽपि भावतः सदा विवेकित्वाद् जाग्रदवस्थामनुभवन् समस्तकल्याणास्पदीभवति । अत्र च सुप्ता-ऽसुप्ताधिकारगाथा:
जागरह नरा णिच्चं जागरमाणस्स वड्डए बुद्धी । जो सुयइ न सो धण्णो जो जग्गइ सो सया धण्णो ॥ सुयइ सुयंतस्स सुयं संकियखलियं भवे पमत्तस्स । जागरणमाणस्स सुयं थिरपरिचियमप्पमत्तस्स ॥ नालस्सेण समं सोक्खं, न विज्जा सह निद्दया । न वेरग्गं पैमाएण, नारंभेण दयालुया ॥ जागरिया धम्मीणं आहम्मीणं तु सुत्तया सेया । वच्छाहिवभगिणीए अकहिंसु जिणो जयंतीए ॥ सुयइ य अयगरभूओ सुयं पि से नासई अमयभूयं । 'होहीइ गोणभूओ नट्ठम्मि सुए अमयभूए ॥ [ ]
तदेवं दर्शनावरणीयकर्मविपाकोदयेन क्वचित् स्वपन्नपि यः संविग्नो यतनावांश्च स दर्शनमोहनीयमहानिद्रापगमाद् जाग्रदवस्थ एवेति । ये तु
सुप्तास्तेऽज्ञानोदयाद् भवन्ति, अज्ञानं च महादुःखम्, दुःखं च जन्तूनामहितायेति 20 दर्शयति
लोयम्मि जाण इत्यादि । लोके षड्जीवनिकाये जानीहि परिच्छिन्द्या दुःखहेतुत्वाद् दुःखम् अज्ञानं मोहनीयं वा तद् अहिताय नरकादि
१. इत्यादि । एष ङ। २. पूर्वोक्तोपदेशो च ॥ * विवेकजनितः ग ।। ३. वद्धए ख ग । ४-५. सुअइ च । ६. सुअंतस्स च । ७-८. सुअं च । ९. नालस्सेणं च । १०. सुक्खं घ ङ। ११. पमादेण च । १२. नारंभेणं घ । १३. दयालुआ च । १४. सुअइ च । १५. सुअं च। १६. णासती च । १७. होही गोणगभूओ, ख, होही गोणब्भूओ ग च, होहिइ गोणब्भूओ घ ङ। १८. ०मोहनीयनिद्रा० ङ। १९. लोयंसि ख ग घ ङ।, लोअंसि च । २०. ज्जाण च । २१. परिच्छिन्द्धि ख । २२. ख-घ-ङ पुस्तकेषु दुःखहेतुत्वाद् इति पाठो नोपलभ्यते ।