________________
10
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः धर्मः स्यादेव, यदि वा भावतो जाग्रतो निद्राप्रमादावष्टब्धान्तःकरणस्य न स्यार्दाप, यस्तु द्रव्य-भावसुप्तस्तस्य न स्यादेवेति भजनार्थः । अथ किमिति द्रव्यसुप्तस्य धर्मो न भवतीति ? उच्यते-द्रव्यसुप्तो हि निद्रया भवति, सा च दुरन्ता । किमिति ? यतः स्त्यानद्धित्रिकोदये सम्यक्त्वावाप्तिर्भवसिद्धिकस्यापि न भवति, तद्बन्धश्च मिथ्यादृष्टि-सास्वादनयोरनन्तानुबन्धिबन्धसहचरितः, 5 क्षयस्त्वनिवृत्तिबादरगुणस्थानकालसङ्ख्येयभागेषु कियत्स्वपि गतेषु सत्सु भवति, निद्रा-प्रचलयोरप्युदये प्राग्वदेव । बन्धोपरमस्त्वपूर्वकरणकाल-सङ्ख्येयभागान्ते भवति, क्षयः पुनः क्षीणकषायद्विचरमसमये, उदय स्तूपशमकोपशान्तमोहयोरपि भवतीत्यतो दुरन्तो निद्राप्रमादः ॥२१३।। यथा च द्रव्यसुप्तो दुःखमवाप्नोत्येवं भावसुप्तोऽपि [इति] दर्शयितुमाह
जह सुत्त मत्त मुच्छिय असहीणो पावए बहुं दुक्खं । तिव्वं अप्पडियारं विवट्टमाणो तहा लोगो ॥२१४॥
जह सुत्त इत्यादि । सुप्तः निद्रया, मत्तः मदिरादिना, मूर्छितः गाढमर्मप्रहारादिना, अस्वाधीनः परायत्तो वातादिदोषोद्भवग्रहादिना यथा बहु दुःखमेप्रतिकारमवाप्नोति तथा भावस्वापे मिथ्यात्वा-ऽविरति-प्रमाद- 15 कषायादि के विवर्तमानः अवतिष्ठमानः लोकः प्राणिगणो नरकभवादिकं दुःखमवाप्नोतीति गाथार्थः ।।२१४॥ पुनरपि व्यतिरेकदृष्टान्तद्वारेणोपदेशदानायाह
एसेव य उवएसो पलित्त पँवलाय पंथमादीसु । अणुहवइ जह सचेओ सुहाइं समणो वि य तहेव ॥२१५॥
सू० ॥ सीउसणिज्जं ॥ 20 १. निद्रावष्टब्धा० ख । २. ०स्त्वनिर्वृत्ति० ग । ३. "प्राग्वदेव इति सम्यक्त्वं न प्राप्नोति'' जै०वि०प० । ४. बन्धोपरमोऽपूर्व० ग । ५. "उपशमक इति श्रेणिसमारम्भकः" जै०वि०प० । ६. ०मवाप्नोतीत्येवं ख च । ७. पावती बहू ज । ८. पि वट्टमाणो ख ज, वियट्टमाणो झ ञ । ९. इत्यादि गाथा । ख ग च । १०. मदिरया, मू० ख । ११. ०मतिप्रकार० ख. ०मप्रतीकार० ङ। १२. ०केऽपि वर्तमान: ख ग । १३. उज। १४. पवलाइ ख ज ठ, पवए य छ, पयलाइ झ। १५. पंथमाईसु ख ज ठ। १६. सुहाइ झ १७. पि छ । १८. सूत्रम्-॥ छ । ख कज, सूत्र:-(त्रम्)-।। तृतीयाध्ययने प्रथमोद्देशकः । तृतीयाध्ययनम ।। झ, सूत्रम्-। सीओसणिज्जस्स णिज्जुत्ती ॥ छ । ञ, सूत्रम् ॥ तृ० अध्ययनम् ।। ठ।