________________
शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इह दुःखी दुःखानामेवावर्तमनुपरिवर्तत इत्युक्तम्, तदिहापि, भावसुप्ता अज्ञानिनो दुःखिनो दुःखानामेवावर्तमनुपरिवर्तन्ते इति, उक्तं च
नातः परमहं मन्ये, जगतो दुःखकारणम् ।
यथाऽज्ञानमहारोगो दुरन्तः सर्वदेहिनाम् ॥ [ ] इत्यादि । 5 इह सुप्ता द्विधा-द्रव्यतो भावतश्च । तत्र निद्रा-प्रेमादवन्तो द्रव्यसुप्ताः,
भावसुप्तास्तु मिथ्यात्वा-ऽज्ञानमयमहानिद्राव्यामोहिताः । ततो ये अमुनयः मिथ्यादृष्टयः सततं भावसुप्ताः, सद्विज्ञानानुष्ठानरहितत्वात्, निद्रया तु भजनीयाः । मुनयस्तु सद्बोधोपेता मोक्षमार्गादचलन्तस्ते सततम् अनवरतं जाग्रति हिताऽहितप्राप्ति-परिहारं कुर्वते । अतो द्रव्यनिद्रोपगता अपि क्वचिद् द्वितीयपौरुष्यादौ 10 सततं जागरूका एवेति । एनमेव भावस्वापं जागरणं च विषयीकृत्य नियुक्तिकारो गाथां जगाद
सुत्ता अमुणी उ सया मुणी उ सुत्ता वि जागरा होति । धम्मं पडुच्च एवं निद्दासुत्तेण भइयव्वं ॥२१३॥
सुत्ता इत्यादि । सुप्ता द्विधा-द्रव्यतो भावतश्च । तत्र निद्रया द्रव्यसुप्तान् 15 गाथान्ते वक्ष्यति । भावसुप्तास्तु अमुनयः गृहस्था मिथ्यात्व-ऽज्ञानावृता हिंसाधोस्रवद्वारेषु सदा प्रवृत्ताः, मुनयस्त्वपगत मिथ्यात्वनिद्राऽवाप्तसम्यक्त्वादिबोधा भावतो जागरूका एव । यद्यपि क्वचिदाचार्या नुज्ञाता द्वितीयपौरुष्यादौ दीर्घ संयमाधारशरीरस्थित्यर्थं निद्रावशोपगता भवन्ति तथापि सदा
जागरा एव । एवं च धर्मं प्रतीत्योक्ताः सुप्ता जाग्रदवस्थाश्च । द्रव्यनिद्रासुप्तेन तु 20 भाज्यमेतत्-धर्मः स्याद्वा न वा, यद्यसौ भावतो जागर्ति ततो निद्रासुप्तस्यापि
१. ०मनुवर्तत क । २. नातः कष्टतरं मन्ये चूर्णौ । ३. यथाऽज्ञानं महारोगं दुरन्तमतिदुर्जयम् चूर्णौ । ४. द्वेधा ख ग च । ५. ०प्रमादापन्ना द्रव्य० ख ग च । ६. तद्विज्ञाना० ख । ७. ०दवलन्तस्ते ग । ८. अतो इति कप्रतो न, अतो निद्रो० ख। ९. वा ग । १०. उ ख । ११. भवितव्वं ख, भवियव्वं छ ज, भणियव्वं ञ, भतियव्वं ठ । १२. ०द्याश्रव० ङ च । १३. मिथ्यात्वादिनिद्रा अवाप्त० ख च, ०मिथ्यात्वादि-निद्रयाऽवाप्त० घ, ०मिथ्यात्वादिनिद्रावाप्त० ङ। १४. ०संयमाचार० घ ङ। १५. ०वशोपगा भ० च । १६. "तद्ध( ध )र्म इति धर्माख्यं वस्तु" जै०वि०प० ।