SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३२९ सीउण्ह इत्यादिगाथा । शीतं चोष्णं च शीतोष्णे तयोः स्पर्शः तम्, सहत इति सम्बन्धः, शीतस्पर्णोष्णस्पर्शजनितवेदनामनुभवन् नार्तध्यानोपगतो भवतीति यावत् । शरीर-मनसोरनुकूलं सुखमिति, तद्विपरीतं दुःखम्, तथा परीषह-कषायवेद-शोकान् शीतोष्णभूतान् सहत इति । तदेवं शीतोष्णादिसहः सन् भवेत् श्रमणः यतिः सदोद्युक्तश्च, क्व ? तप:संयमोपशमे इति गाथार्थः ॥२११॥ 5 साम्प्रतमुपसंहारव्याजेन साधुना शीतोष्णातिसहनं कर्तव्यमिति दर्शयति सीयाणि य उण्हाणि य भिक्खूणं होंति विसहियव्वाइं । कामा ण सेवियव्वा सीउसणिज्जस्स निज्जुत्ती ॥२१२॥ णामणिप्फण्णो गओ छ। सीयाणि य इत्यादिगाथा । शीतानि परीषह-प्रमादोपशम-विरति-सुख- 10 रूंपाणि यान्यभिहितानि, उष्णानि च परीषह-तपउद्यम-कषाय-शोक-वेदाऽरत्यात्मकानि प्रागभिहितानि तानि भिक्षूणां मुमुक्षूणां विषोढव्यानि, न सुखदुःखयोरुत्सेक-विषादौ विधेयौ । तानि चैवं सम्यग्दृष्टिना सह्यन्ते यदि कामपरित्यागो भवतीति गाथाशकलेनाह-कामा इत्यादि गाथा) सुगमम् ॥२१२॥ गतो नामनिष्पन्नो निक्षेपः । साम्प्रतं सूत्रानुगमेऽस्खलितादि- 15 गुणोपेतमशेषदोषव्रातविकलं सूत्रमुच्चारयितव्यम् । तच्चेदम् [सू०१०६] सुत्ता अमुणी मुणिणो सया जागरंति । लोगंसि जाण अहियाय दुक्खं । समयं लोगस्स जाणित्ता एत्थ सत्थोवरते । सुत्ता इत्यादि सूत्रम् । अस्य चानन्तरसूत्रेण सम्बन्धो वाच्यः, स चायम्- 20 १. सीउण्हमित्यादि० खपुस्तकमृते । २. इत्यादि । शीतं ख । ३. "अहवा फासो (सा?) दंस-मसगफासो गहितो" चूर्णौ । ४. सुखम्, तद्विप० ख ग । ५. वेदान् शीतो० ख । ६. सहते । तदेवं ख । ७. साधूनां ख । ८. होति झ, हुंति ठ । ९. विसहियव्वाणि ब । १०. सीउसिणिज्जस्स ठ । ११. गओ इति नास्ति ठप्रतौ, गओ ॥ सूत्रम्-। झ । १२. रूपाण्यभिहितानि ख । १३. ०णां षोढव्यानि च । १४. सत्रम इति न वर्तते गपस्तके ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy