SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३२८ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे मुक्तिसुखमेव सुखम्, नापरम् । एतच्च समस्तकर्मोपतापाभावाच्छीतमिति दर्शयति-निर्वाणसुखम् इति, निर्वाणम् अशेषकर्मक्षयः, तदवाप्तौ वा विशिष्टाकाशप्रदेशः तेन तत्र वा सुखं निर्वाणसुखम् । अस्य चैकार्थिकानि-सातं शीतीभूतं पदमनाबाधमिति । इहापि संसारे यत्किञ्चित् सातावेदनीय5 विपाकोद्भूतं सातं सुखं तदपि शीतं मनआह्लादात्, एतद्विपर्ययस्तु दुःखम्, तच्चोष्णमिति गाथार्थः ॥२०९॥ कषायादिपदव्याचिख्यासयाऽऽह डज्झइ तिव्वकसाओ सोगऽभिभूओ उइन्नवेओ य । उण्हयरो होइ तवो कसायमाई वि जं डहइ ॥२१०॥ डज्झइ इत्यादिगाथा । दह्यते परिपच्यते । कोऽसौ ? तीव्रा उत्कटा 10 उदीर्णा विपाकानुभवेन कषाया यस्य स तथा । न केवलं कषायाग्निना दह्यते शोकाभिभूतश्च, इष्टवियोगादिजनितः शोकस्तेनाभिभूतः तिरोहितशुभव्यापारोऽसावपि दह्यते । तथा उदीर्णः विपाकापन्नो वेदो यस्य स तथा, उदीर्णवेदो हि पुमान् स्त्रियं कामयते, साऽपीतरम्, नपुंसकस्तूभयमिति, तत्प्राप्त्यभावे काङ्क्षोद्भूतारतिदाहेन दह्यते । चशब्दाद् इच्छाकामाप्राप्ति15 जनितारतिपावकेन च दह्यते । तदेवं कषायाः शोको वेदोदयश्च दाहकत्वाद् उष्णः, सर्वं वा मोहनीयमष्टप्रकारं वा कर्मोष्णम् । ततोऽपि तद्दाहकत्वाद् उष्णतरं तप इति गाथाशकलेन दर्शयति-उष्णतरं तपो भवति । किमिति ? यतः कषायादिकमपि दहति, आदिशब्दात् शोकादिपरिग्रह इति गाथार्थः ॥२१०।। येनाभिप्रायेण द्रव्य-भावभेदभिन्ने परीषह-प्रमादोद्यमादिरूपे शीतोष्णे जगादा20 चार्यस्तमभिप्रायमाविःकरोति सी-उण्हफास-सुह-दुह-परीसह-कसाय-वेय-सोयसहो । होज्ज समणो सया उज्जओ य तवसंजमोवसमे ॥२११॥ दारं ॥ १. सुखम् अशेष० ख । २. ०कसातो ब । ३. उदिण्णवेदो ब । ४. इत्यादि । द० ङ। ५. "तत्प्राप्तिः इति यथासम्भवं घटना" जै०वि०प० । ६. ०रतिदाहकेन ख । ७. ०न दह्यते ख ग च । ८. उज्जुओ क, उज्जतो । ९. ०मोवसमो क ज ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy