SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः उपशमपदव्याचिख्यासयाऽऽहसीईओ परिणिव्वुओ य सन्तो तहेव पण्हाणो । होउवसन्तकसाओ तेणुवसन्तो भवो सीओ || २०७।। दारं ।। 5 सीईओ इत्यादिगाथा । उपशमो हि क्रोधाद्युदयाभावे भवति । ततश्च कंषायाग्न्युपशमात् शीतीभूतो भवति, क्रोधादिज्वालानिर्वाणात् परिनिर्वृतो भवति । चः समुच्चये, राग- - द्वेषपावकोपशमादुपशान्तः । तथा क्रोधादिपरितापोपशमात् प्रह्लादितः आपन्नसुखः । यतो ह्युपशान्तकषाय एव एवम्भूतो भवति तेनोपशान्तकषायः शीतो भवतीति । एकार्थिकानि चैतानीति गाथार्थः ॥२०७॥৷ अधुना विरतिपदव्याख्यामाह अभयकरो जीवाणं सीयघरो संजमो हवइ सीओ | अस्संजमो य उण्हो एसो अन्नो वै पंज्जाओ ॥२०८॥ दारं ॥ णिव्वाणसुहं सायं सीईभूयं पयं अणाबाहं । इहमवि जं किंचि सुहं तं सीयं दुक्खमवि उन्हं ॥ २०९॥ ३२७ अभय इत्यादिगाथा | अभयकरणशीलः, केषां ? जीवानाम्, शीतं सुखं `तेंद्गृहः तदावासः, कोऽसौ ? संयमः सप्तदशभेद:, अतोऽसौ शीतो भवति, समस्तदुःखहेतुद्वन्द्वोपरमात्, एतद्विपर्ययैस्त्वसंयम उष्णः । एषः शीतोष्णलक्षणः संयमा-ऽसंयमयोः पर्यायः, अन्यो वा सुख-दुःखरूपो विवक्षावशाद्भवतीति 15 गाथार्थः ॥२०९॥ साम्प्रतं सुखपदविवरणायाह ४७ 10 निव्वाणसुहमित्यादिगाथा । सुखं शीतमित्युक्तम् । तच्च समस्तद्वन्द्वो परमादात्यन्तिकै कान्तिकानाबाधलक्षणं निरुपाधिकं परमार्थचिन्तायां 20 १. सीतीभूतो ख ञ, सीतीभूओ ज झ । २. परिनिव्वुतो ज । ३. ०कसातो । ४. हवति सीतो ञ भवे जीवो ख । ५. सीतीभूतो ख । ६. कषायाद्युपशमात् ग । ७. ० पोपशमनात् ग । ८. ०नि चेति गाथार्थः ख । ९. सीयहरो ञ । १०. गीओ छ, सीतो ञ । ११. वि ञ-ठआदर्शों विना । १२. पज्जातो ञ । १३ तद्गृहं घ च । १४. ०यं उष्णः ङ । १५. सीयं झ ञ । १६. सीतीभूतं सुहं अणाबाधं ख । १७. नेव्वाणसुहं इत्यादि ख । १८. पारमार्थ० व ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy