SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ ३२६ शीलाचार्यविरचितविवरणविभूषिते आचाराङ्गसूत्रे इत्थी सक्कारपरीसहो य दो भावसीयला एए । सेसा वीसं उण्हा परीसहा होंति नायव्वा ॥२०४॥ इत्थी इत्यादि । स्त्रीपरीषहः सत्कारपरीषहश्च द्वावप्ये तो शीतौ, भावमनोऽनुकूलत्वात् । शेषास्तु पुनर्विशतिरुष्णा ज्ञातव्या भवन्ति, मनसः 5 प्रतिकूलत्वादिति गाथार्थः ॥२०४।। यदि वा परीषहाणां शीतोष्णत्वमन्यथाऽऽचष्टे जे तिव्वपरीणामा परीसहा ते भवन्ति उण्हा तु । जे मंदपरीणामा परीसहा ते भवे सीया ॥२०५॥ दारं ॥ जे इत्यादि गाथा । तीव्रः दुःसह: परिणामः परिणतिर्येषां ते तथा, य 1() एवम्भूताः परीषहास्ते उष्णाः । ये तु मन्दपरिणामास्ते शीता इति, इदमुक्तं भवति ये शारीरदुःखोत्पादकत्वेनो दीर्णाः सम्यक्सहनाभावाच्चाधिविधायिनस्ते तीव्रपरिणामत्वादुष्णाः । ये पुनरुदीर्णाः शारीरमेव केवलं दु:खमुत्पादयन्ति महासत्त्वस्य, न मानसं, ते भावतो मन्दपरिणामाः, । यदि वा ये तीव्रपरिणामाः प्रबलाविर्भूतस्वरूपास्ते उष्णाः, ये तु मन्दपरिणामाः ईषल्लक्ष्यमाणस्वरूपास्ते शीता 15 इति ॥२०५।। यत् परीषहानन्तरं प्रमादपदमुपन्यस्तं शीतत्वेन यच्च तपस्युद्यम इत्युष्णत्वेन तदुभयं गाथयाऽऽचष्टे धम्मम्मि जो पमायइ अत्थे वा सीयलो त्ति तं बैंति । उज्जुत्तं पुण अन्नं तत्तो उण्हं ति णं बेंति ॥२०६॥ दारं ॥ धम्मम्मि जो इत्यादि । धर्मे श्रमणधर्मे यः प्रमाद्यति नोद्यमं विधत्ते अर्थे ४) वा अर्थ्यत इति अर्थ: धन-हिरण्यादिः तत्र तदुपाये वा, शीतल इत्येवं तं ब्रुवते आचक्षते । उद्युक्तं पुनरन्यं ततः संयमोद्यमात् कारणाद् उष्णमित्येवं ब्रुवते । णमिति वाक्यालङ्कार इति गाथार्थः ॥२०६।। १. तुम्हा क । २. हुंति ख ठ । ३. इत्यादि गाथा । क-गपुस्तके विना । ४. उ ख ज झ ठ । ५. शरीर० घ। ६. ०स्ते च तीव्र० ख । ७. जे झ । ८. सीअलो ज । ९. हि क । १०. बेति क, बिंति ठ । ११. धम्मंसि ख । १२. अथवा अर्थ्यत क ग । १३. धन-धान्यहिरण्यादिः घट। १४. "तदपाय इति यः प्रमाद्यति" जैवि०प० । १५. शीतलं तं ख ।
SR No.032103
Book TitleAcharang Sutram
Original Sutra AuthorN/A
AuthorAmrutlal Bhojak, Jambuvijay
PublisherSiddhi Bhuvan Manohar Jain Trust
Publication Year2008
Total Pages472
LanguageSanskrit
ClassificationBook_Devnagari & agam_acharang
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy