________________
प्रथमे श्रुतस्कन्धे तृतीयमध्ययनं शीतोष्णीयम् । प्रथम उद्देशकः ३२५ क्षायिकसम्यक्त्व-चारित्रादिरूपत्वात् । अथवाऽशेषकर्मदाहान्यथानुपपत्तेरुष्णः । शेषा अपि विवक्षातो द्विरूपा अपीति ॥२०२॥
अस्य च जीवभावगुणस्य शीतोष्णविवेकं स्वत एव नियुक्तिकारः प्रचिकटयिषुराह
सीयं परीसह पमायुवसम विरई सुहं च, उण्हं तु । परिसहतवुज्जमकसायसोगवेयारई दुक्खं ॥२०३॥ दरगाहा ॥
सीयमित्यादि । शीतम् इति भावशीतम्, तच्चेह जीवपरिणामस्वरूपं गृह्यते, स चायं परिणामः-मार्गाच्यवन-निर्जरार्थं परिषोढव्याः परोषहाः । प्रमादः कार्यशैथिल्यं शीतलविहारता, उपशमः मोहनीयोपशमः, स च सम्यक्त्वदेशविरति-सर्वविरतिलक्षणः, उपशमश्रेण्याश्रितो वा, तत्क्षयो वेति । विरतिः इति 10 प्राणातिपातादिविरत्युपलक्षितः सप्तदशविधः संयमः । सुखं च सातावेदनीयविपाकाविर्भूतम् । एतत् सर्वं परीषहादि शीतम् । उष्णं च गाथाशकलेनाह-परीषहाः पूर्वव्यावर्णितस्वरूपाः, तपस्युद्यमः यथाशक्ति द्वादशप्रकारतपोऽनुष्ठानम्, कषायाः क्रोधादयः, शोकः इष्टाप्राप्ति-विनाशोद्भव आधिः, वेदः स्त्री-पुं-नपुंसकवेदोदयः, अरतिः मोहनीयविपाकाच्चित्तदौस्थ्यम्, 15 दुःखं च असातावेदनीयोदयादिति । एतानि परीषहादीनि पीडाकारित्वादुष्णमिति गाथासमासार्थः ॥२०३।। व्यासार्थं तु नियुक्तिकारः स्वत एवाचष्टे, तत्र परीषहाः शीतोष्णयोर्द्वयोरप्यभिहिताः, ततो मन्दबुद्धरनध्यवसाय: संशयो विपर्ययो वा स्यात्, अतस्तदपनोदार्थमाह
१. पमाय पसम ख छ ज, पमाउवसम झ, पमायुपसम ठ । २. विरती । । ३. च क-छप्रती ऋते । ४. सर्वेष्वप्यादर्शेषु परीसह इति पाठः । ५. दारं ॥ ख ज । ६. सीयं इत्यादि ख च । ७. “परिषोढव्या इति सम्यक्सह्यमानाः सीताः" जै०वि०प० । ८. "तत्क्षये(यो) मोहनीयक्षयः''जै०वि०प० । ९. विरतिः प्राणा० घ । १०. च इति कपुस्तके नास्ति । ११. परिषहादि ङ। १२. परिषहाः ङ। १३. पूर्ववर्णित० ग । १४. क्रोधादय इति, शोकः ख। १५. परिषहादीनि ङ । १६. "अनध्यवसायम्( यः) इति न विचारक्षम द्वयमपि, संशय इति शीतं चेद् उष्णं कथम् ? विपी य] इति एकमेव शीतमुष्णं वा न द्वे" जै०वि०प० ।